कलायः, पुं, (कलां अयते । “कर्म्मण्यण्” । ३ । २ १ । इति अण् ।) शमीधान्यविशेषः । मटर वाँ- टुला इति भाषा । तत्पर्य्यायः । सतीलकः २ हरेणुः ३ खण्डिकः ४ । इत्यमरः । २ । ९ । १६ ॥ त्रिपुटः ५ अतिवर्त्तुलः ६ । इति रत्नमाला ॥ मुण्डचणकः ७ शमनः ८ नीलकः ९ कण्टी १० सतीलः ११ हरेणुकः १२ सतीनः १३ सती- नकः १४ । (यथा, माघः । १३ । २१ । “विक- सत्कलायकुसुमासितद्युतेः” ॥) अस्य गुणाः । वात- रुचिपुष्ट्यामदोषकारित्वम् । पित्तदाहकफनाशि- त्वम् । शीतत्वम् । कषायत्वञ्च ॥ (अस्य पर्य्यायो- गुणाश्च यथा, भावप्रकाशस्य पूर्व्वखण्डे धान्यवर्गे । “कलायो वर्त्तुलः प्रोक्तः सतिलश्च हरेणुकः । [] कलायो मधुरः स्वादुःपाके रूक्षश्च वातलः” ॥) अस्य शाकगुणाः । मंधुरत्वम् । पित्तश्लेष्महरत्वम् । गुरुत्वम् । कषायानुरसत्वम् । रूक्षत्वम् । मल- भेदित्वम् । बायुकोपनत्वञ्च । इति राजनिर्घण्टः ॥ (“भेदनं मधुरं रूक्षं कषायमतिवातलम्” ॥ इति सुश्रुते सूत्रस्थाने । ४६ अध्याये ॥)
📄 मूल मुद्रित पृष्ठ (2-059-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।