🕉️ 20 November 2026, Friday · 03:19:17 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कलियुग
kaliyuga
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
तिष्य (3.3.155) पुष्य
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कलियुग संज्ञा पुं॰ [सं॰]
१. चार युगों में से चौथा युग ।
२. पापयुग । कलहयुग ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कलि—युग n. the Kali age (see above), Mn. i, 85; MBh. &c.
📄 मूल मुद्रित पृष्ठ (262,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कलियुग न० कर्म० राहुशिरोवत् तत्पुरुषो वा । कलिरूपे युगे कालविशेषे तन्मानादिकं कलिशब्दे उक्तं तदारम्भतिथिर्युगाद्या सा च गौडीयमते माघपौर्ण्ण- मासी यथाह ति० त० “अथ युगाद्याः तासु च “युगार्द्या वर्षवृद्धिश्च सप्तमी पार्व्वती प्रिया । रवेरुदयमीक्षन्ते न तत्र तिथियु- म्मता” । इत्यनेन व्यवस्था । ब्रह्मपुराणे । “वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम् । कार्त्तिके शुक्लपक्षे तु त्रेताऽथ नवमेऽहनि । अथ भाद्रपदे कृष्णत्रयोदश्यान्तु [] द्वापरम् । माघे च पौर्णमास्यां वै घोरं कलियुगं स्मृतम् । युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः” । अत्र वैशाखादयः पौर्णमास्यन्ताएव १ ब्रह्मपुराणे तथैव तिथिकृत्याभिधानात् । मुख्यवाचित्वे कार्त्तिके नव- मेऽहनीत्यनेनैव सिद्धौ शुक्लपक्ष इति व्यर्थं स्यात् तेन भाद्रकृष्णत्रयोदशी अश्वयुक्कृष्णपक्षीयेति मैथि- सोक्तं निरस्तम् । आसां प्रशंसामाह विष्णुपुराणम् “वैशाखमासस्य तु या तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे । नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे । एता युगाद्याः कविताः पुराणैरनन्तपुण्यास्तिथयश्चत स्रः । उपप्लवे चन्द्रमसोरवेश्च तथाष्टकास्वप्ययनद्वये च” । उपप्लवे ग्रहणे “पानोयमप्यत्र तिलैर्विमिश्रं दद्यात् षितृभ्यः प्रयतोमनुष्यः । श्राद्धं कृतं तेन समा- सहस्रं रहस्यमेतत् पितरोवदन्ति” । स्नानमधिकृत्य भविष्ये “संवत्सरफलं तत्र नवम्यां कार्त्तिके तथा । मन्वादौ च युनादौ च मासत्रयफलं लभेत्” । तदेतत् कल्पभेदेन व्यवस्थाप्य माघामावस्यैव कलियुना द्येति दाक्षिणात्याः प्रतिपेदिरे यथाह नि० सि० “रत्नमालायाम् “माघे पञ्चदशी कृष्णा नभस्ये च त्रयोदशी । तृतीया माधवे शुक्ला नवम्यूर्जे युगादयः । यत्तु गौडाः “माघस्य पूर्ण्णिमायां तु घोरं कलि- युगं स्मृतमिति” ब्राह्मोक्तेः “बैशाखमासस्य सिता तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे । नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे” इति विष्णु- पुराणे चकारेण तमिस्रपक्षानुषङ्गेण पूर्वानुरोधात् पूर्णिमास्यैव ज्ञेया । “द्वे शुक्ले” इत्यादिकन्तु निर्मू- लमित्याहुः । तन्न “दर्शे तु मावमासस्य प्रवृत्तं द्वापरं युगम्” इति भविष्यविरोधात् एतेन ब्राह्मानुसारात् पूर्णिमायामेव युगादिश्राद्धं वदन् शूलपाणिः परास्तः । तेन कल्पभेदात् व्यवस्थेति तत्त्वम् । एतेन “कार्त्ति- के नवमी शुक्ला माचमासे च पूर्ण्णिमा” इति नारदीयं व्याख्यातम् । निर्मूलत्वोक्तिर्नारदीयाज्ञानकृता” । तत्र श्राद्धादिकरणमुभयदिने तत्प्राप्तौ निर्ण्णयश्च नि० सि० । “अत्र श्राद्धमुक्तं मात्स्ये “कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु । हायनानि द्विसाहस्रं पितॄ- णाम् तृप्तिदं भवेदिति” । भारतेऽपि “या मन्वाद्या युगा- द्याश्च तिथयस्तासु मानवः । स्नात्वार्चयित्वा दत्त्वा च जप्त्वानन्तकलं लभेदिति” श्राद्धेऽपि पूर्वाहव्यापिनी ग्राह्या [] “पूर्वाह्णे तु सदा कार्याः शुक्ला मनुयुगादयः । दैवे कर्मणि पित्र्ये च कृष्णे चैवापराह्णिकी” इति पाद्मो- क्तेः । “द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः । शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे चैवापराह्णिके” हेमाद्रौ नारदीयवचनाच्च । दीपिकापि “अथो युगादि, मन्वादि- कर्मतिथयः पूर्वाह्णिकाः स्युः सिते । विज्ञेया अपरा- ह्णिकाश्च बहुले” इति । स्मृत्यर्थसारेऽपि “युगादिमन्वा- दिश्राद्धेषु शुक्लपक्षे उदयव्यापिनी तिथिर्ग्राह्या । कृष्ण- पक्षे पराह्णव्यापिनीति” । दिवोदासीये गोभिलः “वैशा- खस्य तृतीयां तु पूर्वविद्धां करोति वै । हव्यं देवा न गृह्णन्ति कव्यञ्च पितरस्तथेति” । गोविन्दार्णवेऽप्येवम् । तेनेयं पूर्वाह्णव्
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
कलियुगं, क्ली, (कलिरेव युगम् । अग्नेः शिखा राहोः शिर इति वत् कलेर्युगं वा ।) चतुर्थयगम् । (यथा मनुः १ । ८५ । “अन्ये कृतयुगे धर्म्मा स्त्रेतायां द्वापरे परे । अन्ये कलियुगे नॄणां युगह्रासानुरूपतः” ॥) तस्योत्पत्त्यादि यथा । माघीपूर्णिमायां शुक्रवारे कलियुगोत्पत्तिः । तत्र अवतारः कल्किः । पुण्य- मेकपादम् ॥ पापं त्रिपादम् । गङ्गा तीर्थम् । ब्राह्मणो निरग्निः । अन्नगताः प्राणाः । सार्द्ध- त्रिहस्तपरिमितो मनुष्यदेहः । अष्टाधिकशत- वर्षं परमायुः । भोजनपात्रस्य नियमो नास्ति । इति कलियुगस्य लक्षणम् ॥ कलियुगाब्दाः ४३२००० । आदौ कलिराजा धर्म्मपुत्त्रो युधि- ष्ठिरः । हरिश्चन्द्रः मुनिश्चन्द्रः तेजशेखरः विक्र- मादित्यः विक्रमसेनः लाउसेनः बल्लालसेनः देव- पालः भूपालः महीपालः । एते राजचक्रवर्त्तिनः ॥ तन्माहात्म्यं यथा, -- ‘धर्म्मः सङ्कुचितस्तपो विरहितं सत्यञ्च दूरंगतम् । लोकाधर्म्महता द्विजाश्चलुभिता नारीवशा मानवाः’ ॥ तत्र तारकब्रह्मनाम । “हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे । हरे राम हरे राम राम राम हरे हरे” ॥ इति केचित् ॥
📄 मूल मुद्रित पृष्ठ (2-063-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "कलियुग" आता है (6)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें