कवाट न० कु--भावे अप् कवं शब्दमटति, कं वातं वटति वट वेष्टने वा अण् उप० स० । द्वाररोधके (कपाट) ख्याते काष्ठादिमये पदार्थे अमरः तस्य द्वारपिधानकाले शब्दाय- मानत्वात् वातरोधकत्वाच्च तथात्वम् “उरःश्रिया तत्र च गोपुरस्फु रत्कवाटदुर्द्दर्षतिरःप्रसारिता” नैष० । “मोक्षद्वारकबाटपाटनकरी काशीपुराघोश्वरी” अन्नदास्त० । कवाटपरिमाणादिकं वृ० स० उक्तं यथा । “विस्तारार्धं भवेद्गर्भो भित्तयोऽन्याः समन्ततः । गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् । उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदु- [] दुम्वरः । विस्तारपादप्रतिमं बाहुल्य शाखयोः स्मृतम् । त्रिपञ्चसप्तनवभिः शाखाभिस्तत् प्रशस्यते” । तत्काष्ठनिय- मश्च ज्यो० त० भारतोक्तः “क्षीरवृक्षीद्भवं दारु गृहेषु न निवेशयेत् । कृताधिवासं विहगैरनिलानलपीडितम् । गजैर्विभग्नञ्च तथा विद्युन्निर्घातपीडितम् । चैत्यदेवाल- योत्पन्नं वज्रभग्नं श्मशानजम् । देवाद्यधिष्ठितं दारु नीपनिम्बविभीतकान् । कण्टकिनोऽसारतरून् वर्जयेत् गृह- कर्मणि । वटाश्वत्थौ च निर्गुण्डीं कोविदारविभीतकौ । पलाक्षं शाल्मलोञ्चैव पलाशञ्च विवर्जयेत् । विस्तारात् द्विगुणोच्छ्रायं द्वारं कुर्य्यात्तथा गृहम्” । अधिकं गृह- शब्दे वक्ष्यते । अल्पार्थे ङीप् । कवाटी स्वल्पकवाटे स्त्री ।
📄 मूल मुद्रित पृष्ठ (1831-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।