कषायपाक पु० सुश्रुतोक्ते द्रव्यविशेषाणां क्वाथभेदे । तत्- प्रकारो यथा “केचिदाहुस्त्वक्पत्रमूलादीनां भागन्तच्च- तुर्गुणजलमावाप्य, चतुर्भागावशेषं निःक्वाथ्यापहरेदित्येषः कषायपाककल्पः” इति परमतमुक्त्वा “एतत्तु न सम्यक्” इति तन्मतं दूषयित्वा द्रव्यपरिमाणभेदं दर्शयित्वा च “तत्रान्य- तमषरिमाणसम्मितानां यथायोगं त्वक्पत्रमूलादीनामात- पपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा, भेद्यानि अणुशोभेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन वा जलेनाभि- षिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वाऽपहरेदित्येष कषायपाककल्पः” इति स्वमतेनोक्त्वा पक्षान्तरमप्युक्तम् “अथ वा तत्रोदकद्रोणे त्वक्पत्रमूलादीनां तुलामावाप्य- चतुर्भागावशिष्टं निःक्वाथ्यापहरेदित्येष कषायपाककल्पः” इति, । अयञ्च कल्पो विशेषानुक्तविषये विशेषनिर्देशे तु तथैव ग्राह्यः” यथाह तत्रैव “स्नेहभेषजतीयानां प्रमाणं यत्र नेरितम् । तत्रायं विधिराख्येयो निर्दिष्टे तत्तदेव तु । अनुक्तद्रव्यकार्य्ये तु सर्वत्र सलिलं मतम् । कल्कक्वाथाव- निर्देशे गणात्तस्मात् विनिर्देशेत्” ।
📄 मूल मुद्रित पृष्ठ (1839,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।