काकमाची, स्त्री, (काकान् मञ्चते अर्च्चयति फल- दानेनेति । मचि + अण् + गौरादित्वात् ङीष् पृषोदरादित्वात् म लोपः ।) क्षुद्रवृक्षविशेषः । गुडकामाइ इति भाषा । तत्पर्य्यायः । वायसी २ । इत्यमरः । २ । ४ । १५१ ॥ ध्माङ्क्षमाची ३ वाय- साह्वा ४ सर्व्वतिक्ता ५ बहुफला ६ कट्फला ७ रसायनी ८ गुच्छफला ९ काकमाता १० स्वादु- पाका ११ सुन्दरी १२ तिक्तिका १३ बहुतिक्ता १४ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण- त्वम् । कफशूलार्शःशोथदोषकुष्ठकण्डूनाशित्वञ्च । इति राजनिर्घण्टः ॥ त्रिदोषशमताकारित्वम् । वृव्यत्वम् । रसायनत्वम् । नातिशीतत्वम् । नात्यु- ष्णत्वम् । हृद्यत्वम् । भेदकत्वञ्च । इति राज- वल्लभः ॥ (तथाच भावप्रकाशस्य पूर्व्वखण्डे १ भागे ॥ “काकमाची त्रिदोषघ्नी स्निग्धोष्णास्वरशुक्रदा ॥ तिक्ता रसायनीशोथकुष्ठार्शोज्वरमेहजित् । कटुर्नेत्रहिता हिक्काच्छर्द्दिहृद्रोगनाशिनी” ॥)
📄 मूल मुद्रित पृष्ठ (2-078-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।