काकोलूक न० काकश्च उलूकश्च शाश्वतिकविरोधित्वात् समा- हारद्वन्द्वः । काकोलूकसमाहारे ततः वैरे वुञ् । काको- लूकिका तयोर्वैरे स्त्री । काकोलूकमधिकृत्य कृतोग्रन्थः “द्वन्द्वाच्छः” पा० काकोलूकीय तयोराख्याने तच्च भा० सौ० १ अ० स्थितं यथा- “सुप्तेषु तेषु काकेषु विश्रब्धेषु समन्ततः । सोऽपश्यत् सह- सायान्तमूलूकं घोरदर्शनम् । महास्वनं महाकाय हर्य्यक्षं वभ्रुपिङ्गलम् । सुदीर्घघोणानखरं सुपर्णमिव वेगितम् । सोऽथ शब्दं मृदुं कृत्वा र्लायमान इवाण्डजः । न्यग्रो- धस्य ततः शाखां प्रार्थयामास भारत सन्निपत्ग तु शाखायां न्यग्नोघस्य विहङ्गमः । सुप्तान् जघान सुब- हून् बायसान् वायमान्तकः । केषाञ्चिदच्छिनत् पक्षा- ञ्छिरांसि च चकर्त्त ह । चरणांश्चैव केषाञ्चिद्बभञ्ज चर- [] णायुधः । क्षणेनाहत्य बलवान् येऽस्य दृष्टिपथे स्थिताः । तेषां शरीरावयवैः शरीरैश्च विशाम्पते! । न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत् । तांस्तु हत्वा ततः काकान् कौशिकोमुदितोऽभवत् । प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदन!” ।
📄 मूल मुद्रित पृष्ठ (1854-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।