काक्षीवत् पु० दीर्घतमस ऋषेः शूद्रायामुत्पन्ने पुत्रभेदे तदुत्- पत्तिकथा “गोतमादिभिः पुत्रैर्बद्ध्वा उडुपेन गङ्गा- म्भसि निःक्षिपं दोर्घमसमुपक्रम्य” भा० आ० १०४ अ० उक्ता यथा । तन्तु राजा बलिर्न्नाम सर्व्वधर्म्मविशारदः । अपश्यन्मज्जनगतः स्रोतसाभ्यासमागतम् । जग्राह चैनं धर्म्मात्मा बलिः सत्यपराक्रमः । ज्ञात्वा चैनं स वव्रे- ऽथ पुत्रार्थे भरतर्षभ! । सन्तानार्थं महाभाग! भार्य्यासु मम मानद! । पुत्त्रान् धर्म्मार्थकुशलानुत्पादयितुमर्हसि । एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः । तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा । अन्धं वृद्धञ्च तं मत्वा न सा देवो जगाम ह । स्वान्तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा । तस्यां काक्षीवदादीन् स शूद्रयोनावृषिर्व्वशी । जनयामास धर्म्मात्मा पुत्त्रानेका- दशैव तु । काक्षीवदादीन् पुत्रांस्तान् दृष्ट्वा मर्व्वानधीयतः । उवाच तमूषिं राजा ममेम इति भारत । नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत् । शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः । अन्धं वृद्धञ्च मां दृष्ट्वा सुदेष्णा महिषीतव । अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम” । ३ चण्डकौशिकपितरि गौतमे मुनिभेदे । “अथ काक्षी- वतः पुत्रं गौतमस्य महात्मनः । सुश्राव तपसि श्रान्त- मुदारं चण्डकौशिकम्” भा० स० १६ अ० । “काक्षीवानौ- शिजश्चैव नाचिकेतोऽथ गौतम” ४ अ० । अत्र पृथग्निर्द्दे- शात् काक्षीवतोऽन्य एव गौतमः “ततो राजगृहं गच्छे- त्तीर्थसेवी नराधिप । उपस्पृश्य ततस्तत्र काक्षोवानिव- मोदते” भा० व० ८४ अ० । “काक्षोवान गौतमोऽआत्रश्च” माग० २, ९, ५ । ४ राजभेदे च । “सुहोत्र रान्तदवञ्च काक्षीवन्तं महाद्युतिम्” भा० आ० १ अ० चतु- र्विशतिविख्यातनृपकथंने ।
📄 मूल मुद्रित पृष्ठ (1855,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।