कादम्बरी स्त्री कुत्सितं मलिनमम्बरं यस्य कोः कदादेशः कदम्बरो लीलाम्बरी बलभद्रस्तस्य प्रिया अण् । हलि- प्रियायाम्, मदिरायाम् । अस्यानिरुक्तिर्बलभद्रप्रि- यता च हरि० ९८ अ० दर्शिता यथा “अथ सङ्क- र्षणः म्यीमान् विना कृष्णेन वीर्य्यवान् । चचार तस्य शिखरे नगस्य नगसन्निभः । प्रफुल्लस्य कदम्बस्य प्रच्छाये निषषाद ह । वायुना मदगन्धेन वीज्यमानः सुखेन वै । तस्य तेनानिलौघेन सेव्यमानस्प तत्र वै । मद संस्पर्शजो गन्घः संस्पृशन् घ्राणमागतः । तृष्णा चैनं विवेशाशु वारुणोप्रभवा तदा । शुशोष च मुखं तस्य मत्तस्येवापरेऽहनि । स्मारितः स पुरावृत्तममृतप्राशनं [] विभुः । तृषितोमदिरान्वेवी ततस्तं तरुमैक्षत । तस्य प्रावृषि फुल्लस्य यदम्भो जलदोज्झतम् । तत्कोटरस्थं मदिरा व्यजायत मनोहरा । तान्तु तृष्णाभिभूतात्मा पिब- न्नार्त्तैवासकृत् । मदाच्च चलिताकारः समजायत स प्रभुः । तस्य मत्तस्य वदनं किञ्चिच्चलितलोचनम् । घूर्णि- ताकारमभवच्छरत्कालेन्दुसप्रभम् । कदम्बकोटरे जाता नाम्ना कादम्बरीति सा । वारुणी रूपिणी तत्र देवानाम- मृतारणी । कादम्बरीमदकलं विदित्वा कृष्णपूर्व्वजम् । तिस्रस्त्रिदशनार्य्यस्तमुपतस्थुः प्रियंवदाः । मदिरा रूपिणी भूत्वा कान्तिश्च शशिनः प्रिया । श्रीश्च देवी वरिष्ठा स्त्री स्वयमेवाम्बुजध्वजा” । “कादम्बरीमदविघूर्णितलोचनस्य युक्तं हि लाङ्गलभृतः पतनं पृथिव्याम्” उद्भ० । तेन कादम्बं कदम्बकोटरमुत्पत्तिस्थानत्वेन लाति ला--क लस्य रः मत्वर्थे र वेति बोध्यम् । कादम्बं रसं राति रा--क गौरा० ङीष् । २ कोकिलायाम्, ३ सरस्वत्याम्, ४ शारिकायाञ्च मेदि० वाणभट्टरचिते ५ कथाभेदे । सा च वाणभट्टेन सामिकृता तत्पुत्रेण समाप्तिं नीता ।
📄 मूल मुद्रित पृष्ठ (1882-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।