कायरूपसंयम पु० मात० सूत्राद्युक्ते ध्यानविशेषरूपे संयम भेदे स च तत्र सविस्तरं फलसहितो दर्शितो यथा । “कायरूपसयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुप्रकाशासंयोगे- ऽन्तर्द्धानम्” सू० । “कायरूपे संयमाद्रूपस्य या ग्राह्मा शक्तिस्तां प्रतिब- ध्नाति ग्राह्यशक्तिस्तम्भे सति चक्षुःप्रकाशासंयोगेऽन्तर्धान- मुत्पद्यते योगिनः । एतेन शब्दाद्यन्तर्द्धानमुक्तं वेदि- तव्यम्” व्यासभाष्य० । “पञ्चात्मकः कायः स च रूपवत्तया चाक्षुषो भवति रूपेण हि कायश्च तद्रूपञ्च चक्षुर्ग्रहणकर्मशक्तिमनुभवति तत्र यदा रूपे संयमविशेषो योगिना क्रियते तदा रूपस्य ग्राह्यशक्तौ रूपवत्कायप्रत्यक्षताहेतुः स्तभ्यते तस्मात् ग्राह्यशक्तिस्तम्भे सत्यन्तर्द्धानयोगिनस्ततः परकीयचक्षुर्जनि- तेन प्रकाशेन ज्ञानेनासम्प्रयोगः चक्षुर्ज्ञानाविषयत्वं योगिनः कायस्यैवेति यावत् तस्मिन् कर्त्तव्येऽन्तर्द्धानं कारणमित्यर्थः । एतेनेति कायशब्दस्पर्शरसगन्धसंयमात्तदुग्राह्यशक्तिस्तम्भे श्रोत्रत्वग्रसनघ्राक्षप्रकाशासम्प्रयोगेऽन्तर्द्धानमिति” विव० ।
📄 मूल मुद्रित पृष्ठ (1931,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।