🕉️ 22 November 2026, Sunday · 04:00:35 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कायव्यूह
kāyavyūha
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
कायव्यूह संज्ञा पुं॰ [सं॰] शरीर मे वात, पित्त, कफ, तथा त्वक्, रक्त, मांस, स्नायु, अस्थि, मज्जा औऱ शु्क्र के स्थान और विभाग आदि का क्रम (बैद्यक) ।
२. योगियों की अपने कर्मों के भोग के लिये चित्त में एक एक इंद्रिय और अंग की कल्पना की क्रिया ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
काय—व्यूह m. the supernatural power of assuming several bodies simultaneously, Sāṃkhyapr.
📄 मूल मुद्रित पृष्ठ (1324,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कायव्यूह काये वातादीनां धातूनां सप्तानां त्वगादीनाञ्च व्यूहो व्यूहनम् । कायस्थवातादोनां विन्यासे “नाभिचक्रे कायव्यूहज्ञानम्” पात० सू० “नाभिचक्रे संयमं कृत्वा काय- व्यूहं विजानीयात् । वातपित्तश्लेष्माणस्त्रयो दोषाः सप्त सन्ति धातवः--त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि पूर्व्वं पूर्व्वमेषां बाह्यमित्येवंविन्यासज्ञानम्” भा० । ६ त० । यो- गिभिः कर्मभोगार्थं कल्पिते २ कायसमुदाये च यथा च भोगार्थं कायव्यूहरचना तथा चिन्तामणौ मुक्तिवाटे उक्तं यथा “यत्तु माऽभुक्तमिति स्मृतिविरोधेन क्षीयन्तैत्यादिश्रुते- रन्यथार्थवर्णनं, तन्नस्मृतेः प्रत्यक्षवेदबाधितत्वेन तद्विरुद्धार्थ कवेदाननुमापकत्वात् । वामदेवसौभरिप्रभृतीनां कायव्यूह- श्रवणात्तत्त्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षय इति चेन्न तपःप्रभावादेव तत्त्वज्ञानानुत्पादे वा काय- व्यूहसम्भवात् । भोगजननार्थञ्च कर्मभिरवश्यं तत्तत्काय- निष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः । यौगपद्यञ्च कायानां तज्जनकधर्मस्वभावात् तपःप्रमावाद् वा” । एकस्यैव जौवस्य चित्तान्तराणिकायेन्द्रियाणि च निर्म्माय तत्तत्कर्म्मभोगार्थरचितकायव्यूहेन योग इत्येतत् शा० भा० समर्थितं यथा । “सङ्कल्पादेव तु तच्छ्रुतेः” शा० सू० । “हार्दविद्यायां श्रूयते--“स यदि पितृलोक- कामोभवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ती- त्यादि” । तत्र संशयः--किं सङ्कल्प एव केवलः पित्रादि- समुत्थानहेतुः उत निमित्तान्तरसहितः? इति । तत्र सत्यपि सङ्कल्पादेवेति श्रवणे लोकवन्निमित्तान्तरापेक्षा युक्ता यथा लोकेऽस्मदादीनां सङ्कल्पाद् गत्यादिभ्यश्च हेतुभ्यः पित्रादिसम्पत्तिर्भवत्येवं मुक्तस्यापि स्यात् एवं दृष्टविपरीतं न कल्पितं भविष्यति । सङ्कल्पादेवेति तु राज्ञैव सङ्कल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभामपेक्ष्योच्यते । न च सङ्कल्पमात्रसमुत्थानाः पित्रादयोमनोरथविजृम्भितवच्चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्य्याप्नुयुरित्येवं प्राप्ते ब्रूमः--सङ्कल्पा देव तु केवलात् पित्रादिसमुत्थानमिति । कुतः? तच्छ्रुतेः “सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीत्यादिका” हि श्रुति र्निमित्तान्तरापेक्षायां पीद्ध्येत । निमित्तान्तरमपि यदि सङ्कल्पानुविधाय्येव स्याद्भवतु न तु प्रयत्नान्तरसम्पाद्यं निमित्तान्तरमिष्यते प्राक् तत्सम्पत्तेर्बन्ध्यसङ्कल्पत्वप्रस- ङ्गात् । न च श्रुतिगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते । सङ्कल्पबलादेव चैषां यावत्प्रयोजनं स्थैर्य्यो- [] पपत्तिः, प्राकृतसङ्कल्पविलक्षणत्वान्मुक्तसङ्कल्पस्य” भा० । “अतएव चानन्याधिपतिः” सू० “अतएव चाबन्ध्यसङ्कल्पत्वाद नन्याधिपतिर्विद्वान् भवति नास्यान्योऽधिपतिर्भवतीत्यथः । न हि प्राकृतोऽपि सङ्कल्पयन्नन्यस्वामिकत्वमात्मनः सत्यां गतौ सङ्कल्पयति । श्रुतिश्चैतद्दर्शयति “अथ य इहात्मान मनुविद्य प्रव्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेष कामचारोभवतीति” भा० । “अभावं वादरिराह ह्येवस्” सू० “सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति” इत्यतः श्रुते- र्मनस्तावत्सङ्कल्पसाधनं सिद्धं शरीरेन्द्रियाणि पुनः प्राप्तौ- श्वर्य्यस्य विदुषः सन्ति न सन्तीति समीक्ष्यते तत्र वादरि- स्तावदाचार्य्यः शरीरस्येन्द्रियाणाञ्चाभावं महीयमानस्य विदुषो मन्यते । कस्मात्? एवं ह्याहाम्नायः “मनसैतान्- कामान् पश्यन् रमते यत्र ते ब्रह्मलोकः” इति । यदि मनसा शरीरेन्द्रियैश्च विहरेत् मनसेति विशेषणं न स्यात् । तस्मादभावः शरीरेन्द्रियाणां मोक्षे” भा० “भावं जैमिनि- र्विकल्पामननात्” सू० “जैमिनिराचार्य्योमनोव
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬