🕉️ 20 November 2026, Friday · 08:39:08 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कारंधम
kāraṃdhama
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कारंधम m. (fr. करं-ध्˚), a patr. of Avikṣit, MBh. xiv, 63 and 80
कारंधम n. N. of a Tīrtha, MBh. i, 7841.
📄 मूल मुद्रित पृष्ठ (274,3)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कारन्धम पु० करन्धमस्यापत्यं शिवा० अण् । १ करन्धमनृपस्या पत्ये अविक्षन्नाम्नि नृपे तदुत्पत्त्यादि “एतस्मात् कार- णाद्राजन्! विश्रुतः स करन्धमः । तस्य कारन्धमः पुत्र- स्त्रेतायुगमुखेऽभवत् । इन्द्रादनवरः श्रीमान् देवैरपि मुदु- जयः । तस्य सर्व्वे महीपालाः वर्त्तन्ते व्य वशे तदा । स हि सम्राडभूत्तेषां वृत्तेन च बलेन च । अविक्षिन्नाम धर्म्मात्मा वीर्य्येणेन्द्रसमोऽभवत्” इत्युपकमे “तस्य पुत्रोऽति- चक्राम पितरं गुणवत्तया । मरुत्तोनाम घर्म्मज्ञश्चक्रवर्त्ती महायशाः” भा० आश्व० ४ अ० उक्तम् । २ गोत्रापत्ये अण् । करन्धमपौत्रे अविक्षिन्नृपपुत्रे २ मरुत्ते नृपे च । “कथं यज्ञे मरुत्तस्य” इत्युपक्रमे “यदि सुश्रूषसे पार्थ । शृणु [] कारन्धमं नृपम्” तत्रैव ३ अ० मरुत्तस्य कारन्धममिति विशेषणात् । तस्येदमण् । ३ नारोतीर्थभेदे न० तत्तीर्थ- प्रादुर्भावादि भा० आ० २१७, १८ अ० । यथा “ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः । अभ्यगच्छत् सुपुण्यानि शोभनानि तपस्विभिः । वर्ज्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः । अवकीर्णानि यान्यासन् पुरस्तात्तु तपस्विभिः । अगस्त्यतीर्थं सौभद्रं पौलोमञ्च सुपावनम् । कारन्धमं प्रसन्नञ्च हयमेधफलञ्च तत् । भारद्वाजस्य तीर्थन्तु पापप्रशमन महत् । एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः । विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः । दृष्ट्वा च वर्ज्यमानानि मुनिभिर्द्धर्म्मबुद्धिभिः । तपस्विनस्ततोऽपृच्छत् प्राञ्जलिः कुरुनन्दनः । तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः । तापसा ऊचुः । ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् । तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन! । वैशम्पायन उवाच । तेषां श्रुत्वा महाबाहुर्व्वार्य्यमाणस्तपोधनैः । जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः । ततः सौभद्रमासाद्य महर्षे- स्तीर्थमुत्तमम् । विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः । अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् । जग्राह चरणे ग्राहः कुन्तीषुत्रं धनञ्जयम् । स तमादाथ कौन्तेयो विस्फु- रन्तं जलेचरम् । उदतिष्ठन्महाबाहुर्ब्बलेन वलिनां वरः । उत्कृष्ट एव ग्राहस्तु सोऽर्ज्जुनेन यशस्विना । बभूव नारी कल्याणी सर्व्वाभरणमूषिता । दीप्यमाना श्रिया रा- जन्! दिव्यरूपा मनोरमा । तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः । तां स्त्रियां परमप्रीत इदं वचनमब्रवोत् । का वै त्वमसि कल्याणि! कुतो वासि जलेचरी । किमर्थञ्च महत् पापमिदं कृतवती पुरा? । बर्गोवाच । अप्सरास्मि महा- वाहो! देवारण्यविहारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम महाबल! । मम सख्यश्चतस्रोऽन्याः सर्व्वाः कामगमाः शुभाः । ताभिः सार्द्धं प्रयातास्मि लोकपालनिवेशनम् । ततः पश्यामहे सर्व्वा ब्राह्मणं संशितव्रतम् । रूपवन्तमधी- यानमेकमेकान्तचारिणम् । तस्य वै तपसा राजंस्तद्वनं तेजसा युतम् । आदित्य इव तं देशं कृत्स्नं सर्वं व्यका- शयत् । तस्य दृष्ट्वा तपस्तादृग्रूपञ्चाद्भुतमुत्तमम् । अव- तीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया । अहञ्च सौरभेयो च समीचा बुद्बुदा लता । यौगपद्येन तं विप्रसम्यगच्छाम भारत! । गायन्त्योऽथ हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् । तु च नाम्मासु कृतवान् मनो वीर! कथञ्चन । नाकम्पत [] महातेजाः स्थितस्तपसि निर्म्मले । सोऽशपत् कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ! । ग्राहभूता जले यूयं चरिष्यथ शतं समाः! । वर्गोवाच । ततो वयं प्रव्यथिताः सर्व्वा भारतस- त्तम! । अयाम शरणं विप्रं तं तपोधनमच्युतम् । रूपेण वयसा चैव कन्दर्पेण च दर्पिताः । अयुक्तं कृतवत्यः स्म क्षन्तु मर्हसि नो द्विज! । एषएव बधोऽस्माकं सुपर्य्याप्तस्तपोधन! । यद्वय संशितात्मानं प्रलोब्धं त्वामिहा
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें