कारवेल्लं, क्ली, (कारं वेल्लति । वेल्ल चलने कर्म्म- ण्यण् । यद्वा कारेण वातगमनेन वेल्लति चलति गच्छति वा वेल्ल चलने अच् ।) कठिल्लकम् । करला इति भाषा । तत्पर्य्यायगुणाः । “कारवेल्लं कठिल्लं स्यात् कारवेल्ली ततो लघुः । कारवेल्लं हिमं भेदि लघु तिक्तमवातलम् ॥ ज्वरपित्तकफास्रध्नं पाण्डुमेहकृमीन् हरेत् । तद्गणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः” ॥ इति भावप्रकाशः ॥ अमरे पुंलिङ्गोऽयम् ॥
कारवेल्लः, पुं, (कारेण वायुवत् गत्या वेल्लति चल- तीति । कार + वेल्ल + अच् ।) लताविशेषः । करला इति भाषा । तत्पर्य्यायः । कठिल्लकः २ सुषवी ३ । इत्यमरः । २ । ४ । १५४ ॥ शुषवी ४ सुशवी ५ । इति तट्टीका ॥ कण्डुरः ६ काण्डकटुकः ७ सुकाण्डः ८ उग्रकाण्डः ९ कठिल्लः १० नासा- सम्बेदनः ११ पटुः १२ । इति राजनिर्घण्ठः । तत्पुष्पगुणः । धारकत्वम् । रक्तपित्तरोगे सुपथ्य- त्वञ्च ॥ तत्फलगुणः । शुक्रकफपित्तनाशित्वम् । रुचिकरत्वञ्च । इति राजवल्लभः ॥
📄 मूल मुद्रित पृष्ठ (2-099-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।