🕉️ 23 November 2026, Monday · 08:45:25 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कारीरी
kārīrī
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कारीरी (ई), f. (scil. इष्टि) ‘connected with the fruit of the plant Capparis aphylla’, a sacrifice in which this fruit is used, MaitrS.; Kāṭh. &c.
📄 मूल मुद्रित पृष्ठ (275,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कारीरी स्त्री कं जलमृच्छति ऋ--विच् कारं सजलमेघ- मीरयति ईर--अण् उप० स० गौ० ङीष् । वर्षहेतौ इष्टभेदे । “वर्षकामेष्टिः कारीरी” “तस्यां प्रति त्यं चारु- मध्वरमीडे अग्निं स्ववसं नमोभिरिति धार्य्ये” आश्व० श्रौ० २ । १३ । १ । २ । “वर्षकामस्य कारीरी नाम इष्टिः कार्य्या । तस्यां--कारीर्य्याम् । अत्र बहुदैवत्याया आम्ना- नात् अन्यदा इयमेव कारोरी एकदैबत्या भवति तस्यामपि प्रापणार्थं तस्यां ग्रहणमिति” नारा० । आरब्धायां कारीर्य्यां कृतार्द्धायां वर्षणे सति सा समापनीया न वेति सन्देहे कात्या० श्रौ० १ । २ । २२ सू० निर्ण्णीतं यथा “दृष्टे तत्परिमाणम्” कृतार्द्धायामिष्टौ वर्षणे दृष्टे सति तत्परिमाणमेव कर्म्म कर्त्तव्यं यत्परिमाण- मदृष्ठे वर्षणे क्रियते । न तु वृष्टौ दृष्टायां किमप्यन्यूनं कृतार्द्धं परित्याज्यमिति । न च वर्षणं तत्र तस्या इष्टेः फलं, किन्तु कालस्बभावात् प्रतिबन्धकापगमाच्च स्वयं प्रवृत्तम् इत्याशयः” सं० व्या० । अतएव जैमिनिना ६, २, १३, कर्मणि आरब्धे फलेच्छाराहित्ये, कथञ्चित् फलप्राप्तौ च आरब्धस्य काम्यकर्म्मणः समाप्यत्वमुक्तं यथा “प्रक्रमात्तु नियुज्ये- तारम्भस्य निमित्तत्वादिति” व्याख्यातं चेदं शवरस्वामिना यथा “प्रजाकामो यजेत, ग्रामकामो यजेत”--इत्येवमादि कर्म समाम्नायते । तत्र सन्देहः--किं प्रक्रान्तं नियोगतः समापनीयम्, उतेच्छया कार्य्यं हेयं वा?--इति कुतः? एवं प्राप्तं?--नियोगतः परिसमापयितव्यम्--इति । कुतः? एवं हि श्रूयते,--इदंकामो यजेत--इति, एवं [] तस्य आख्यातस्य अर्थम् उपदिशन्ति, ‘उपक्रमप्रभृति अपवर्गपर्यन्तम् आह--इति, उपक्रमादारभ्य यावत् परिसमाप्तिः--इत्येतावान् व्यापारविशेषः तस्य अर्थः, न यथा पाकः त्यागः--इति । तत्र हि पाकसत्तामात्रं निर्द्दिश्यते न आरभ्य परिसमापयितव्यम् । एवं च आख्याताथैं लौकिका अपि प्रतिपद्यन्ते, तत्र न आरम्भे पुरुषप्रयत्नः नोद्यते--इति गम्यते । यतो नोदितं न नियो- गत आरभन्ते, नियोगतः पुनः परिसमापयन्ति, तेन नोभे आरम्भपरिसमाप्ती शब्दार्थः किन्तर्हि?--परिस- माप्तिः शब्दार्थः परिसमाप्त्याऽर्थप्राप्तत्वात् आरम्भस्य । तस्मात् परिसमाप्तिः शब्दार्थः--डति गम्यते । सा चेत् शब्दार्थः, सा कर्त्तव्यतया नोद्यते, आरम्भे नास्ति कर्त्त- व्यतावचनं’ तेन न नियोगत आरम्भः, नियोगतस्तु परिसमाप्तिः । तेन उपक्रान्ते कर्मणि यदि वीयात् फलेच्छा, अवाप्नोति वा फलं, तस्यामप्यवस्थायां, कर्त्त- व्यमेव उपक्रान्तस्य परिसमापनम् । ननु अथिनो यो- ऽर्थः सोऽत्र कर्त्तव्यतयोच्यते’ । नैतदेवं, वाक्यार्थो हि स भवति, यागस्य तु कर्त्तव्यता श्रुत्या गम्यते । तस्मात् ग्रामकामेण याग आरब्धः परिसमापनीयः ग्रामादिकामनावचनं निमित्तत्वेन तदा भवति निमित्ते च उत्पन्ने यत् कर्त्तव्यम्--इत्युच्यते, तद्विनष्टेऽपि निमित्ते कर्त्तव्यम्, न हि तद्विनष्टम् अनुत्पन्नं भवति, उत्पत्तिश्च निमित्तं न भावः तस्मात् वीतायामपि फलेच्छायाम् उप- क्रान्तं परिसमापयितव्यम । क्रियाया हि निमित्तम् आरम्भः सोऽषि परिसमाप्तेः” इति । कारीरीष्टिं प्रकृत्थ श्रूयते च । “यदि वर्षेत्तावत्येव जुहु- यात्” “कारीरीमनुवृष्टिः” सि० कौ० ।
📄 मूल मुद्रित पृष्ठ (1943-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔁 जिनके अर्थ में "कारीरी" आता है (1)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬