कालियदमन पु० कालियं दमयति दम--णिच्--ल्यु । वासुदेवे कृष्णे तत्कथा भाग० १०, १६ अ० यथा “कालिन्द्यां कालियस्यासीध्रदः कश्चिद्विषाग्निना । श्रप्यमाणपया, यस्मिन् पतन्त्युपरिगाः खगाः । विप्रुष्म ता विषोदोर्म्मिमारुतेनाभिमर्शिताः । म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः । तं चण्डवेगविषवीर्य्यमवेक्ष्य- तेन कृष्णां नदीञ्च खलसंयमनावतारः । कृष्णः कदम्ब- मधिरुह्य ततोऽतितुङ्गादास्फोट्य गाढवसनोऽभ्यपतद्वि- षोदे । सर्पह्रदः पुरुषसारनिपातवेगसंक्षोभितोरग विषोच्छसिताम्बुराशिः । पर्य्यक् प्लुतोविषकषायित भीषणोर्म्मिर्द्धीमन्! धनुःशतमनन्तबलस्य किन्तत् । तस्मिन् ह्रदे विहरतो भुजदण्डघूर्ण्णवार्घोषमङ्ग! वरवारणबि- क्रमस्य । आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवा समसरत्तदमृष्यमाणः । तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं संदश्य मर्म्मसु रुषा भुजगश्चखाद । तं नागभोगपरिपीतमदृष्टचेष्टमालोक्य तत्प्रियसखाः पशुपा भृशार्त्ताः । कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखा- नुशोकभयमूढधियोनिपेतुः । गावोवृषा वत्सतर्य्यः क्रन्द- मानाः सुदुःखिताः । कृष्णे न्यस्तेक्षणा भीतारुदन्त्य इव तस्थिरे” इत्थं गोपादीनामाकुलतामुपवर्ण्ण्य “इत्थं स्वगोकुलमनन्थगतिं निरीक्ष्य सस्त्रीकुमार मतिदुःस्वितमात्महेतोः । आज्ञाय मर्त्यपदवीमनुवर्त्त- मानः स्थित्वा मुहूर्त्तमुंदतिष्ठदुरङ्गबन्धात् । तं प्रथ्यमानवपुषा व्यथितात्मभोगस्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः । तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष स्तब्धेक्षणोन्मुखमुखोहरिमीक्षमाणः । तं जिह्वया द्विशि- खया परिलेलिहानं द्वे सृक्कणी अतिविषालकरा- लदृष्टिम् । क्रीडन्नमुं परिसक्षार यथा खगेन्द्रोबभ्राम सोऽप्यवसरम्प्रसमीक्षमाणः । एवं परिभ्रमहतौजससुन्नतां- समानम्य तत्पृथुशिरःस्वधिरूढ आद्यः । तन्मूर्द्धरत्न- निकरस्फुरणातिताम्रपादाम्बुजोऽखिलकलादिगुरुर्न्ननर्त्त । तन्नर्त्तुमुद्यतमवेक्ष्य तदा तदीयगन्घर्व्वसिद्धमुनिचारण देवबध्वः । प्रीत्या मृदङ्गपणवानकवाद्यगीतपुष्पोप- हारनुतिभिः सहसोपसेदुः । यद्यच्छिरो न नमतेऽङ्ग- शतैकशीर्ष्णस्तत्तन्ममर्द्द खलदण्डधरोऽङ्घ्रिपातैः । [] क्षीणायुषोभ्रमत उल्वणमास्यतोऽसृङ्गस्तोवमन् परमक- श्मलमाप नागः । तस्याक्षिभिर्गरलमुद्वमतः शिरःसु यद्यत् समुन्नमति निश्वसतो रुषोच्चैः । नुत्यन् पदा तु नम- यन् दमयाम्बभूव पुष्पैः प्रपूजित इवेह पुमान् पुराणः” कालिमथनादयोऽप्यत्र भावे ल्युट् ६ त० । कालियस्य २ मर्द्दने न०
📄 मूल मुद्रित पृष्ठ (2021-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।