कालियह्नद पु० ६ त० । कालियनागाधिष्ठिते वृन्दावनस्थ यमुनान्तर्गते ह्रदभेदे कालियदमनशब्दे विवृतिः । तस्य कालियस्य तप्रदाश्रयणकथाभाग० १०, १७ अ० यथा “नागालयं रमणकं कथं तत्याज कालियः । कृतं वा किं सुपर्णस्य तेनैकेनासमञ्जसम् । वादरायणिरुवा च । उप- हार्य्यः सर्पजनैर्म्मासिमासीह योबलिः । वानस्पत्यो म- हावाहो । नागानां प्राङ्निरूपितः । स्वं स्वं भागं प्रय- च्छन्ति नागाः पर्वणि पर्वणि । गोपीथायात्मनः सर्व्वे सुपर्ण्णाय महात्मने । विषवीर्य्यमदाविष्टः काद्रवेयस्तु का- लियः । कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् । तत् श्रुत्वा कुपितोराजन्! भगवान् भगवत्प्रियः । विजिघांसु- र्म्महावेगः कालियं समुपाद्रवत् । तमापतन्तं तरसा विषा- युधः प्रत्यभ्ययादुत्थितनैकमस्तकः! दद्भिः सुपर्णं व्यदशद्द- शायुधः करालजिह्वोच्छ्वसितोग्रलोचनः । तं तार्क्षपुत्रः स निरस्य मन्युमान् प्रचण्डवेगोमधुसूदनासनम् । पक्षेण सव्येन हिरण्यरोचिषा जघान कद्राः सुतमुग्रविक्रमः । सुपर्णपक्षाभिहतः कालियोऽतीवविह्वलः । ह्रदं विवेश का- लिन्द्यास्तदगम्यं दुरासदम् । तत्रैकदा जलचरं गरुडोभ- क्ष्यमीप्सितम् । निवारितः सौभरिणा प्रसह्य क्षुधितोऽ- हरत् । मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ- हृते । कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् । अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति । सद्यः प्राणैर्वियुज्येत सत्यमेतद्ब्रवीम्यहम् । तत् कालियः परं वेद नान्यः कश्चन लेलिहः । अवात्सीद्गरुडाद्भीतः कृष्णेन च विवासितः” ।
📄 मूल मुद्रित पृष्ठ (2021,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।