कालीयकं, क्ली, (कालीय + स्वार्थे कन् । कालीयमिव कायति वा । कै + कः ।) कालिया इति ख्यातं पीतवर्णसुगन्धिकाष्ठम् । इत्यमरटीकासारसुन्दरी ॥ (यथा, महाभारते २ । ५१ । १० । “चन्दनागुरुकाष्ठानां भारान् कालीयकस्य च । चर्म्मरत्नमुवर्णानां गन्धानाञ्चैव राशयः” ॥) तत्पर्य्यायः । जायकं २ कालानुसार्य्यं ३ । इत्यमरः । २ । ६ । १२६ ॥ जावकम् ४ । इति टीकासर्व्वस्वम् ॥ कालेयम् ५ वर्णकम् ६ कान्तिदायकम् ७ । इति भरतधृतव्याडिः ॥ राजनिर्घण्टोक्तगुणपर्य्यायौ पी- तचन्दनशब्दे द्रष्टव्यौ ॥ कृष्णचन्दनम् । तत्पर्य्यायः । कालीयम् २ कालिकम् ३ हरिप्रियम् ४ । इति शन्दचन्द्रिका ॥ दारुहरिद्रा । इति राजनिर्घण्टः ॥ (अस्य व्यवहारो यत्र तद्यथा, “सालसाराज- कर्णस्वदिरकदरकालस्कन्धक्रमुकभूर्जमेष शृङ्गीति निशचन्दनकुचन्दनशिंशपा शिरीषासनधवार्ज्जु- नतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि काली- यकञ्चेति” ॥ इति सुश्रुते सूत्रस्थाने । ३८ च्यध्यायः ॥)
कालीयकः, पुं, (कालीय + सज्ञायां स्वार्थे वा कन् ।) दारुहरिद्रा । इति शब्दरत्नावली ॥ (अस्य पर्य्याया यथा, -- “दार्व्वी दारुहरिद्रा च पर्ज्जन्यापर्ज्जनीति च । कटङ्कटेरी पीता च भवेत् सैव पचम्पचा ॥ [] सैवकालीयकः प्रोक्तस्तथा कालेयकोऽपि च । पीतद्रुश्च हरिद्रुश्च पीतदारुकपीतकम्” ॥ इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
📄 मूल मुद्रित पृष्ठ (2-115-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।