कावेरी स्त्री कस्य जलस्य वेरं शरीरं तस्येदमित्यण् ङीप् । १ सरिद्भेदे । कुत्सितमपवित्रं वेरं यस्याः स्वाङ्गत्वात् ङीष् । २ वेश्यायाम् ५ ब० । ३ हरिद्रायाम् । “दृषद्वती च कावेरी वङ्कुर्मन्दाकिनी तथा” भा० आनु०१६५ अ० । “भारतीगुप्ततोया च कावेरी मुर्म्मुरा तथा” भा० व०२२१ । “चन्द्रवशा ताम्रपर्ण्णी अवटोदा कृतमाला- वोहा मसी कावेरी वेन्नेत्यादि भाग० ५, १९, १८, भारतवर्षनदीकथने । सा च सह्याद्रेः मलयाद्रेश्च सानुसन्निकृष्टस्था तदेतत् रघौ वर्ण्णितम् यथा “गृहीतप्रतिमुक्तस्य स धर्म्मविजयी नृपः । श्रियं महेन्द्र नाथस्य जहार नतु मेदिनीम् । ततो वेलातटेनैव फल- [] वत्पूगमालिना । अगस्त्याचरितामाशाम् अनाशास्य- जयो ययौ । स सैत्यपरिभोगेण गजदानसुगन्धिना । कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् । बलै- रध्युप्रितास्तस्य विजिगीषोर्गताध्वनः । मारीचोद्भ्रा- न्तहारीताः मलयाद्रेरुपत्यकाः” । “कावेरीतीर- भूमीरुहभुजगबधूभुक्तमुक्तावशिष्टः” मलयजवातवर्णने “ततो गच्छेत कावेरीं वृतामप्सरसा गणैः । तत्र स्नात्वा नरो राजन्! गोसहस्रफलं लभेत्” भा० व० ८५ । गङ्गे! च यमुने! चैव गोदावरि! सरस्वति! नर्म्मदे! सिन्धु! कावेरि! जलेऽस्मिन् सन्निधिं कुरु, तीर्थवाहन मन्त्र
📄 मूल मुद्रित पृष्ठ (2023-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।