🕉️ 22 November 2026, Sunday · 01:50:44 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

काशिराज
kāśirāja
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
काशिराज संज्ञा पुं॰ [सं॰]
१. काशी का राजा ।
२. दिवोदास ।
३. धन्वंतरि ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
काशि—राज m. = -प, MBh.; Hariv.; BhP.
N. of the Dānava Dīrgha-jihva, MBh. i, 2676
of Divo-dāsa Dhanvantari, Suśr.
of Pratardana Daivodāsi, RAnukr.
of a grandfather of Dhanvantari, VP.
of a prince who has been killed by his wife, VarBṛS.
📄 मूल मुद्रित पृष्ठ (280,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
काशिराज पु० काशीनां जनपदानां राजा टच्समा० । काशिदेशाधिपे । तद्देशाधिपाश्च कालभेदेन यद्यपि बह- हवस्तथापि काशिनामकनृपेण तदन्वयेन तत्र काशी- पुरीकरणात् तदन्वयजस्यैव तदधिपत्वं प्रथितं तदेतत् हरिवं ३२ अ० वर्ण्णितं यथा “काशेस्तु काशयोराजन् पुत्रो दीर्घतपास्तथा । वभूब दी- र्घतपसो विद्वान् धन्वन्तरिः सुतः । धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः । अथ केतुमतः पुत्त्रो विद्वान् भीम- रथः स्मृतः । दिवोदास इति ख्यातः सर्वरक्षः प्रणाशनः । एतस्मिन्नेव काले तु पुरीं वाराणसीं नृपः । शून्यां निवे- शयामास क्षेमको नाम राक्षसः । शप्ताहि सा मतिमता निकुम्भेन महात्मना । शून्या वर्षसहस्रं वै भवत्विति नराधिप! । तस्यान्तु शप्तमात्रायां दिवोदासः प्रजेश्वरः । विषयान्ते पूरीं रम्यां गोमत्यां संन्यवेशयत् । भद्रश्रेण्यस्य पुत्त्राणां शतमुत्तनधन्विनाम् । हत्वा निवेशयामास दिवोदासः प्रजेश्वरः । दिवोदासस्य पुत्त्रस्तु वीरो राजा प्रतर्द्दनः । प्रतर्द्दनस्य पुत्त्रौ द्वौ वत्सो भार्गव एव च । अलर्को राजपुत्त्रस्तु राजा सन्नतिमान् भुवि । हैहयस्य तु दायाद्यं हतवान् वै महीपतिः । आजह्रे पितृदाया- द्यं दिवोदासहृतं बलात् । भद्रश्रेण्यस्य पुत्त्रेण दुर्द्दमेन महात्मना । दिवोदासेन बालेति घृणया स विसर्ज्जितः । अष्टारथो नाम नृपः सुतो भीमरथस्य बै । तेन पुत्त्रेषु वालेषु प्रहृतं तस्य भारत । वैरस्यान्तं महाराज! क्षत्रियेण विधित्सता । अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः । षष्टिं वर्षसहस्राणि षष्टि वर्षशतानि च । [] तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः । युवा रूपेण सम्पन्न आसीत् काशिकुलोद्वहः । लोपामुद्राप्रसादेन पर- मायुरवाप सः । वयसोऽन्ते महाबाहुर्हत्वा क्षेमकराक्ष- सम् । रम्यां निवेशयामास पुरीं वाराणसीं नृपः” । तत्रापि दिवोदासस्यैव तथात्वम् सर्वत्र प्रथितं सहि देवान् पृथिव्या निष्कास्य वाराणस्यां राज्यं चकारेति काशीख० ४३ अ० वर्ण्णितं यथा “गतेषु देवसंघेषु पृथिव्याः पृथिवीपतिः । चकार राज्यं निर्द्वन्द्वं दिवोदासः प्रताप- बान् । विधाय राजधानीं स वाराणस्यां सुनिश्चलाम्” । इत्युपक्रम्य तद्राज्यं वर्ण्णितम् “दिवोदासस्य तस्यैवं काश्यां राज्यं प्रशासतः । यातमेकदिनप्रायं शरदामयुताष्टकमिति” तत्र तस्य बहुकालराज्यकरणात् तथात्वम् “काशिराजं दिवोदासम्” सुश्रु० । “द्वापरे तु दीर्घजिह्वासुरांश नृपभेद स्तन्नाम्ना प्रसिद्धः “दीर्घजिह्वस्तु कौरव्य! य उक्तो- दानवर्षभः । काशिराजः स विख्यातः पृथिव्यां पृथि- वीपतिः” भा० आ० ६७ अ० । तस्यासुरांशभवत्वात् विष्णुं प्रति द्वेषो यथा हरिवं०९१ अ० । “कौशल्यः काशिराजश्च दशार्ण्णाधिपतिस्तथा” इत्युपक्रम्य “तमन्वयुर्जरासन्धंविद्वि- षन्तोजनार्द्दनम्” इत्युक्तम् । स च अम्बिकादीनां पिता । “विचित्रवीर्य्योऽथोवाह काशिराजसुते क्रमात् । स्वयंवरादुपानीते ह्यम्बिकाम्बालिके उभे” भाग० ९, २२, १८ । स च नाम्ना काशिराजत्वेऽपि काशिपतिरासीत् । “अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः । शुश्राव सहिता राजन् वृण्वाना वै स्वयंवरम्” भा० आ० १०२ अ० । “एवमुक्त्वा महीपालान् काशिराजञ्च वीर्य्यवान्” तत्रैवोक्तेः “धृष्टकेतुश्चेकितानः काशिराजश्च वीर्य्यवान्” गीता । काशिपत्यादयोऽप्यत्र ।
📄 मूल मुद्रित पृष्ठ (2031-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
काशिराजः, पुं, (काश्याः राजा । “राजाहः सखि- भ्यष्टच्” । ५ । ४ । ९१ इति टच् ।) वाराणसी- राजः । तत्पर्य्यायः । धन्वन्तरिः २ दिवोदासः ३ सुधोद्भवः ४ । इति त्रिकाण्डशेषः ॥ (यदि च क्रगाण्वयेन तत्र बहवो राजान आसन् । तथापि तत्स्थानाधिकारित्वात् यदा योऽधि- कारी स एव काशिराजः अतो नासाधुप्रयोग इति मन्यामहे ॥ “अथ खलु भगवन्तममरवर- मृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनव वैतरणौरभ्रपौष्कलावतकर- वीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः” ॥ इति सुश्रुते सूत्रस्थांने १ अः ॥)
📄 मूल मुद्रित पृष्ठ (2-118-a)
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें