काशीखण्ड न० काशीमाहात्म्यप्रतिपादकं खण्डम् । स्कन्द- पुराणान्तर्गते काशीमाहात्म्यादिप्रतिपादके व्यासप्रणीते खण्डभेदे तत्प्रतिपाद्यविषयाश्च तत्रानुक्रमणिकाध्याये दर्शिता यथा “विन्ध्यनारदसंवादः प्रथमं परिकीर्त्तितः । सत्यलोक प्रभावश्च द्वितीयः समुदाहृतः । अगस्तेराश्रम पदे देवानामागमस्ततः । पतिब्रताचरित्रं च प्रस्थानं कुम्भसम्भुवः । तीर्थप्रशंसा च ततः सप्तपूर्य्यस्ततः स्मृताः । संयमिन्याः स्वरूपञ्च ब्रह्मलोकस्ततः परम् । इन्द्राग्न्योर्लोकसंप्राप्तिस्ततश्च शिवशर्म्मणः । अग्नेः समुद्भवस्तस्मात् क्रव्याद्बरुणसम्भवः । गन्धवत्यलकापु- र्य्योरीशयोस्तु समुद्भवः । चन्द्रलोकपरिप्राप्तिः शिवशर्म्म- द्विजन्मनः । उडुलोककथा तस्मात्ततः शुक्रसमुद्भवः । महेशगुरुशौरीणां लोकानां वर्ण्णनं ततः । सप्तर्षीणां ततोलोकाध्रुवस्य च तनस्तपः । ततोध्रुवपदप्राप्ति र्धुवलो- कस्थितिस्ततः । दर्शनं सत्यलोकस्य तस्य वै शिवशर्म्मणः । चतुर्भुजाभिषेकश्च निर्व्वाणं शिवशर्म्मणः । स्कन्धागस्त्यो- श्च संवादो मणिकर्ण्ण्याः समुद्भवः । ततस्तु गङ्गामाहात्म्यं ततोदशहरास्तवः । प्रभावश्चापि गङ्गाया गङ्गानाम- सहस्रकम् । वाराणस्याः प्रशंसा च भैरवाविर्भवस्ततः । दण्डपाणेः समुद्भूतिर्ज्ञानवाप्युद्भवस्ततः । आख्यान- ञ्च कलावत्याः सदाचारस्ततः परम् । ब्रह्मचारिप्रक- रणं ततः स्त्रीलक्षणानि च । कृत्याकृत्यप्रकरणमवि- मुक्तेशवर्ण्णनम् । ततोगृहस्थधर्म्माश्च ततोयोगनिरू- पणम् । कालज्ञानं ततः प्रोक्तं दिवोदासस्य वर्ण्णनम् । काश्याश्च वर्ण्णनं तस्माद्योगिनीवर्ण्णनं ततः । लोलार्क- स्य समाख्यानमुत्तरार्ककथा ततः । शाम्बादित्यस्य महिमा द्रुपदादित्यशंसनम् । ततस्तु गरुडाख्यानमरु- णार्कोदयःस्ततः । दशाश्वमेधिकं तीर्थं मन्दराच्च गणागमः । पिशाचमोचनाख्यानं गणेशप्रेषणं ततः । माया गण पतेश्चाथ ढुण्टिप्रादुर्भवस्ततः । विष्णुमायाप्रपञ्चोऽथ दिवोदासविसर्ज्जनम् । ततः पञ्चनदोत्पत्तिर्विन्दु- माधवसम्भवः । ततोवैष्णवतीर्थानां माहात्म्यपरि- वर्ण्णनम् । प्रयाणं मन्दरात्काश्यां वृषभध्वजशूलिनः । जैगीषव्येण संवादो ज्येष्ठस्थाने महेशितुः । ततः क्षेत्ररहस्यस्य कथनं पापनाशनम् । अथातः कन्दुकेशस्य व्याघ्रेशस्य समुद्भवः । ततः शैलेश्वरकथा रत्नेशस्य च दर्शनम् । कृत्तिवासःसमुत्पत्तिस्ततश्चायतनागमः । देवता [] नामधिष्ठानं दुर्गासुरपराक्रमः । दुर्गाया विजयश्चाथ तत ओङ्कारवर्ण्णनम् । पुनरोङ्कारमाहात्म्यं त्रिलो- चनसमुद्भवः । त्रिलोचनप्रभावोऽथ केदाराख्यानमे- व च । ततो धर्म्मेशमहिमा ततः पक्षिकथा शुभाः । ततो विश्वभुजाख्यानं दुर्द्दमस्य कथा ततः । ततोवीरेश्वरा- ख्यानं वीरेशमहिमा पुनः । गङ्गा तीर्थैश्च संयुक्ता कामेशमहिमा ततः । विश्वकर्म्मेशमहिमा दक्षयज्ञसमुद्भवः । सत्या देहविसर्गश्च ततोदक्षेश्वरोद्भवः । ततो वै पार्व्व- तीशस्य महिम्नः परिकीर्त्तनम् । गङ्गेशस्याथ महिमा नर्मदेशसमुद्भवः । सतीश्वरसमुत्पत्तिरमृतेशादिवर्ण्णनम् । व्यासस्य हि भुजस्तम्भो व्यासशापविमोक्षणम् । क्षेत्रतीर्थ- कदम्बं च मुक्तिमण्डपसङ्कथा । विश्वेशाविर्भवश्चाथ ततोयात्रा परिक्रमः । एतदाख्यानशतकं क्रमेण परिकीर्त्तितम्” ।
📄 मूल मुद्रित पृष्ठ (2034-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।