🕉️ 28 November 2026, Saturday · 05:33:01 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

काशीयात्रा
kāśīyātrā
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
काशीयात्रा स्त्री ७ त० । काशीस्थतीर्थेषु यात्रायाम् तत्प्रकारः काशीख० दर्शतोयथा । “श्रीवेदव्यास उवाच । निशामय महाप्राज्ञ! लोमहर्षण! वच्मि ते । यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्मुदा । सचेलमादौ संस्नाय चक्रपुष्करिणीजले । संतर्प्य देवान् सपितॄन् ब्राह्मणांश्च तथार्थिनः । आदित्यं द्रौपदीं विष्णुं दण्डपाणिं महेश्वरम् । नमस्कृत्य ततोगच्छेद्द्रष्टुं ढुण्ढिविनायकम् । ज्ञानवापीमुपस्पृश्यनन्दिकेशं ततोऽर्च्च- येत् । तारकेशं ततोऽभ्यर्च्च्य महाकालेश्वरं ततः । ततः पुनर्दण्डपाणिरित्येषा पञ्चतीर्थिका । दैनन्दिनी विधातव्या महाफलमभीप्सुभिः । ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वा- र्थसिद्धिदा । द्विसप्तायतनानाञ्च १४ कार्य्या यात्रा प्रयत्नतः । कृष्णांप्रतिपदं प्राप्य भूतावधि यथाविधि । अथ वा प्रतिभूतञ्च क्षेत्रसिद्धिमभीप्सुभिः । तत्तत्तीर्थकृतस्नानस्तत्तल्लिङ्गकृता- र्च्चनः । मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः । ओङ्कारं प्रथमं पश्येन्मत्स्योदर्य्यां कृतोदकः । त्रिपिष्टपं महादेवं ततोवै कृत्तिवाससम् । रत्नेशं चाथ चन्द्रेशं केदा- रं च ततोव्रजेत्” । धर्म्मेश्वरं च वीरेशं गच्छेत् कामेश्वरं ततः । विश्वकर्म्मेश्वरं चाथ मणिकर्ण्णीश्वरं ततः । अविमुक्तेश्वरं- दृष्ट्वा ततोविश्वेशमर्च्चयेत् । एषा यात्रा प्रयत्नेन कर्त्तव्या- क्षेत्रवासिना । यस्तु क्षेत्रमुपित्वा तु नैतां यात्रां समाचरेत् । विघ्नास्तस्योपतिष्ठन्ते क्षेत्रोच्चाटनसूचकाः । अष्टायतनया- [] त्राऽन्या कर्त्तव्या विघ्नशान्तये । दक्षेशः पार्व्वतीशश्च तथा पशुपतीश्वरः । गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः । अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः । दृश्यान्येतानि लि- ङ्गानि महापापोपशान्तये । अपरापि शुभा यात्रा योग- क्षेमकरी सदा । सर्व्वविघ्नोपहन्त्री च कर्त्तव्या क्षेत्रवा- सिभिः । शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्वकम् । स्नानं तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः । स्वर्लीन तीर्थे सुस्नातः पश्येत् स्वर्लीनमीश्वरम् । स्तात्वा मन्दा- किनीतीर्थे द्रष्टव्यो मध्यमेश्वरः । पश्येद्धिरण्यगर्भेशं तत्र तीर्ये कृतोदकः । मणिकर्ण्ण्यां ततः स्नात्वा पश्ये- दीशानमीश्वरम् । उपशान्तशिवं पश्येत् तत्कूपविहि- तोदकः । पञ्चचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽ- र्च्चयेत् । चतुःसमुद्रकूपे तु स्नात्वा देवं समर्च्चयेत् । देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते । शुक्रेश्वरं ततः पश्येत् तत्कूपविहितोदकः । दण्डखाते ततः स्नात्वा व्याघ्रेशम्पूजयेत्ततः । शौनकेश्वरकुण्डे तु स्नानं कृत्वा ततोऽर्च्चयेत् । जम्बुकेशं महालिङ्गं कृत्वा यात्रा- मिमां नरः । क्वचिन्न जायते भूयः संसारे दुःस्वसागरे । समारभ्य प्रतिपदं यावत् कृष्णचतुर्दशीम् । एतत् क्र- मेण कर्त्तव्यान्येतदायतनानि वै । इमां यात्रां नरः कृत्वा न भूयोऽप्यभिजायते । अन्या यात्रा प्रकर्त्तव्यै- कादशायतनोद्भवा । अग्नीध्रकुण्डे सुस्नातः पश्येदग्नी- ध्रमीश्वरम् । उर्व्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् । आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः । लाङ्गली- शमथालोक्य ततस्तु त्रिपुरान्तकम् । ततो मनःप्रकाशेशं प्रतीकेशमथो व्रजेत् । मदालसेश्वरं तस्मात्तिलपर्णेश्वरं ततः । तत्रैकादशलिङ्गानामेषा कार्य्या प्रयत्नतः । इमां यात्रां प्रकुर्व्वाणो रुद्रत्वं प्राप्तुयान्नरः । अतःपरं प्रवक्ष्यामि गौरीयात्रामनुत्तमाम् । शुकपक्षे तृतीयायां सा यात्रा विष्वगृद्धिदा । गोप्रेक्ष्यतीर्थे सुस्नाय सुखनि- र्भालिकां व्रजेत् । ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठां गौरीं समर्चयेत्
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬