किमिच्छक त्रि० किमिच्छसि किमिच्छसीति पृच्छति पृषो० । किमिच्छसि किमिच्छसीति प्रश्नकारके भोजनाद्यर्थमाह्वा- नाय नियुक्ते १ भृत्यादौ । “सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा । गोभिर्वस्त्रैश्च राजेन्द्र! विविधैश्चकिमिच्छकैः” भा० शा० ३८ “किमिच्छसि किमिच्छसीतिप्रश्नकारकैर्भृत्यैः विविधैर्गोवस्त्रादिभिर्निमन्त्रयद्भिः” नीलक० । किमिच्छसीति प्रश्चेन दानार्थं कायति शब्दायतेऽत्र पृषो० । २ मार्कण्डेयपु- राणीक्ते व्रतभेदे पु० तद्व्रते हि “पुरोहितस्य वीराया- (तन्नामराजमहिष्याः) वदतोऽर्थिजनं प्रति । कः किमि- च्छति दुःसाध्यम् कार्य्यं किंसाध्यतामिति । करन्धमस्य महिषी किमिच्छकमुपोषिता । राजपुत्रोऽप्यविक्षित्तु श्रुत्वा पौरोहितं वचः । प्रत्युवाचार्थिनः सर्व्वान् राजद्वारमु- पागतान् । मया साध्यं शरीरेण कार्य्यं किञ्चित् ब्रवीतु मे । मम माता महाभागा किमिच्छकमुपोषिता । शृण्वन्तु मेऽर्थिनः सर्व्वे प्रतिज्ञातं मयात्र वै । किमिच्छथ ददाम्येवं क्रियमाणे किमिच्छके” अर्थिनोऽभिलाषानुरूपदानार्थ केच्छाप्रश्नपूर्व्वकं तद्दानं विहितमिति तस्य तथात्वम् । ३ इच्छाविषयप्रश्नपूर्व्वकेष्टेच्छानुरूपदेयमात्रेऽपि “प्रति श्रयान् सभाः कूपान् प्रपाः पुष्करिणीस्तथा । नैत्यकानि च सर्व्वाणि किमिच्छकमतीव च” भा० शा०६६८५ श्लो०
📄 मूल मुद्रित पृष्ठ (2049,b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।