कीचकजित्, पुं, (कीचकं जितवान् । जि + भूते क्विप् तुक् च ।) भीमसेनः । इति त्रिकाण्डशेषः ॥ (पुराकिल दुष्टात्मा कीचकः विराटभवनस्थां सैरिन्ध्रीरूपधारिणीं द्रौपदीमकामयत । द्रौपदी तु तस्य कामुकस्य दुरभिसन्धिं विज्ञाय तं बहुल कटूक्त्या निर्भर्त्सयामास । अथ कीचक एवमप- मानितः क्रुधा तां पदा ताडितवान् । अथ सा- भिमानिनी द्रौपदी निजदुःखं भीमं निवेदया- मास । भीमस्तु एतदाकर्ण्य संजातरोषः कीचकं हन्तुं मनो दधे । अथ सुबुद्धिर्भीमो द्रौपदीं उपदिदेश श्वो निशायां यथा स दुरात्मा राज- श्यालकः मत्स्यराजशुद्धान्तकन्यानर्त्तनशालायां त्व- ल्लोभेन समुपतिष्ठेत तथाऽऽश्वास्य समयो विधी- यताम् । ततस्त्वद्वेशेन तत्र सङ्गतोऽहमेनं कामार्त्तं दुष्कार्य्यस्य फलं अनुभावयामि । एवं स्थिरीकृते द्रौपदी पूर्व्वोक्तमत्त्रितं स्थानं कीचकं विज्ञापित- वतो । अथ निशायां मूढबुद्धिः कामुकवेशधारी तत्रैव गतः प्रच्छन्नोपविष्टेन बलीयसा भीमेन पशुमारं निपातितः ॥ एतद्विस्तृतिस्तु महाभा- रते ४ । २१ अध्याये द्रष्टव्या ॥)
📄 मूल मुद्रित पृष्ठ (2-131-a) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।