कुम्भीधान्य(क) कुम्भीमितं धान्यमस्य वा कप् । वर्षभोग्य- सञ्चितधान्ये गृहस्थमेदे “कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।” मनुः “वर्षनिर्व्वाहोचितधान्यादिधनः कुम्भीधान्यः” “प्राक् सो- मिकीः क्रियाः कुर्य्यात् यस्यान्नं वार्षिकं भवेदिति” याज्ञ- बल्क्येन गृहस्थस्य वार्षिकसञ्चयाभ्यनुज्ञानात् । मनुरपि यदा वानप्रस्थस्यैव “समानिचयएव वा” इत्यनेन समासञ्चयं वक्ष्यति तदपेक्षया बहुपोष्यवर्गस्य गृहिणः समुचितः संवत्सरसञ्चयः” कुल्लू० । मेधातिथिस्तु यावता धान्यादि- धनेन बहुभृत्यदारादिमतः त्रिसंवत्सरस्थितिर्भवति तावत् सुवर्णादिधनवानपि कुशूलधान्यक इत्यभिधाय कुम्भी उष्ट्रिका षाण्मासिकधान्यादिनिचयः कम्भीधान्यक इति व्याख्यातवान् । गोविन्दराजस्तु कुशूलधान्यक [] इत्येतद्व्याचक्षाणः धान्यकोष्ठसञ्चयो वा स्यात् द्वादशाहमात्रपर्य्याप्तधनः इति कुम्भीधान्यक इत्येतद्व्या- चष्टे । उष्ट्रिकाप्रमाणधान्यादिसञ्चयोवा षडहमात्रपर्य्या- धनः इति” । तेन २ तदर्थयोरपि
📄 मूल मुद्रित पृष्ठ (2120-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।