कुज्या स्त्री सि० शि० उक्ते वृत्ताकाराक्षक्षेत्रार्द्धावयबधनुः सा- धनाङ्गज्यापञ्चकान्तर्गते जीवाभेदे । ज्यापञ्चकं च तत्र दर्शितम् यथा इदानीं पञ्चज्यासाधनमाह । “युक्तायनां- शादपमः प्रसाध्यः कालौ च खेटात् खलु भुक्तभोग्यौ । जिनांशमौर्व्या १३९७ गुणितार्कदोर्ज्या त्रिज्यो ३४३८ द्धृता क्रान्तिगुण्णोऽस्य वर्गम् । त्रिज्याकृतेः ११८१९८४४ प्रोह्य पदं द्युजीवा क्रान्तिर्भवेत् क्रान्तिगुणस्य चापम् । अक्षप्र- भासंगुणितापमज्या तद्द्वादशांशो भवति क्षितिज्या । सा त्रिज्यकाघ्नी विहृता द्युमौर्व्या चरज्यकास्याश्च धनुश्चरं स्यात्” सि० शि० । “अत्र खेटादित्युपलक्षणम् यस्मात् खेटाल्लग्नाद्वाऽपमः साध्यस्तस्मात् सायनांशादेव । तथा- यस्मादुदयसम्बन्धिनौ भुक्तभोग्यकालौ साध्यौ तस्मादपि सायनांशादेव । सायनार्कस्य दोर्ज्या जिनभागज्यया गुणिता त्रिज्यया भक्ता क्रान्तिज्या स्यादित्यादि स्पष्टार्थम् । अस्योपपत्तिः । विषुवत्क्रान्तिवृत्तयोर्या- म्यीत्तरमन्तरं क्रान्तिः । तयोर्हिः संपाते क्रान्त्यभावः । ततस्त्रिभेऽन्तरे परमा जिनतुल्यमागाः । अतस्तत्- [] संपातादारभ्य क्रान्तिः साध्या । उदयाश्च तत एव । स तु संपातो मेषादेः प्रागयनांशतुल्येऽन्तरे । अतः साय- नांशात् खेटात् क्रान्तिर्भुक्तभोग्यकालौ चेत्युक्तम् । यदि त्रिज्यातुल्यया भुजज्यया जिनांशज्यातुल्या क्रान्तिज्या लभ्यते तदेष्टज्यया किमिति । फलं क्रान्तिज्या विषुवद्वृत्तात् तिर्यग्रूपा भवति । क्रान्तिज्या भुजस्त्रि- ज्या कर्णस्तद्वर्गान्तरपदमहोरात्रवृत्तव्यासार्धम् । सैव द्युज्या । अथ कुज्योच्यते । यदि द्वादशकोटेः पलभा भुजस्तदा क्रान्तिज्याकोटेः किमिति । फलं क्षितिजो- न्मण्डलयोर्मध्येऽहोरात्रवृत्ते ज्यारूपं स्यात् । सैव कुज्या । सा धनुःकरणार्थं त्रिज्यवृत्ते परिणाम्यते । यदि द्युज्याव्यासार्धे एताबती तदा त्रिज्याव्यासार्थे कि- मिति । फलं चरज्या । तद्धनुश्चरमित्युपपन्नम् ।” प्रमि० अक्षक्षेत्र शब्दे ४२ पृ० दर्शिते सि० शि० वाक्ये दृश्यम्
📄 मूल मुद्रित पृष्ठ (2068-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।