कुटजलेह पु० चक्रदत्तोक्ते अतिसारनाशके लेहभेदे यथा “शतं कुटजमूलस्य क्षुण्णं तोयार्पणैः पचेत् । क्वाथे पादा- वशेषेऽस्मिन् लेहं पूते पुनः पचेत् । सौवर्चलयवक्षारवि- डसैन्धवपिप्पलीम् । धातकीन्द्रयवाजाजीचूर्णं दत्त्वा पल- द्वयम् । लिह्याद्वदरमात्रं तत् शीतं क्षौद्रेण संयुतम् । पक्वापक्वमतीसारं नानावर्णं सवेदनम् । दुर्व्वारं ग्रहणी- रोगं जयेच्चैव प्रवाहिकाम्” । अर्शोरोगनाशके तत्रोक्ते २ लेहभेदे च यथा- “कुटजत्वक्पलशतं जलद्रोणे विपाचयेत् । अष्टभागाव- शिष्टन्तु कषायमवतारयत् । वस्त्रपूतं पुनः क्काथं पचेल्लेह- त्वमागतम् । भल्लातकविडङ्गानि त्रिकटुत्रिफलान्तथा । रसाञ्जनं चित्रकञ्च कुटजस्य फलानि च । वचामतिविषां विल्वं प्रत्येकञ्च पलं पलम् । त्रिंशत्पलानि गुडस्य चूर्णी कृत्य निधापयेत् । मधुनः कुडवं दद्यात् घृतस्य कुडवन्त- था । एष लेहः शमयति चार्शोरक्तसमुद्भवम् । वातिकं पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम् । ये च दुर्नामजा रोगास्तान् सर्व्वान् नाशयत्यपि । अम्लपित्तमतीसारं पाण्डुरोगमरोचकम् । ग्रहणीमार्द्दवं कार्श्यं श्वयथुं कामलामपि । अनुपानं घृतं दद्यात् मधु तक्रं जलं [] पयः । रोगानीकविनाशाय कौटजो लेह उच्यते” ।
📄 मूल मुद्रित पृष्ठ (2070-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।