कुडप(व) पु० कुड--कपन् (कवन्)वा । प्रस्थचतुर्थांशरूपे प- रिमाणभेदे अमरः अर्द्धर्चादि । कर्षशब्दे विवृतिः क्षीर- स्वामिमते पान्तः । “द्रोणस्तु खार्य्याः खलु षोडशोऽंशः स्यादाढकोद्रोणचतुर्थभागः । प्रस्थश्चतुर्थांश इहाढकस्य प्रस्थाङ्घ्रिराद्यैः कुडवः प्रदिष्टः” “लीला० तेन षोडशक- र्षमितः कुडवः आर्द्रद्रवाणां तु द्वात्रिंशत्कर्षमित इत्याह सुश्रुतः “पलकुडवादीनामतो मानन्तु व्याख्यास्यामः । तत्र द्वादशधान्यमाषा मध्यमाः सुवर्णमाषकः । ते षोडश सुवर्णम् । अथ मध्यमनिष्पावा वा एकोनविंशतिर्द्ध- रणम् । तान्यर्द्धतृतीयानि कर्षः । ततश्चोद्धं चतु- र्गुणमभिवर्द्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनि- ष्पद्यन्ते तुला पलशतं तानि विंशतिर्भारः शुष्काणामिदं मानमार्द्रद्रवाणाञ्च द्विगुणमिति” । [] “अथ षष्ठे गते काले यवप्रस्थमुपार्ज्जयन् । यवप्रस्थ तु तं सक्तूनकुर्व्वन्त तपस्विनः । कृतजप्याह्निकास्ते तु हुत्वा चाग्निं यथाविधि । कुडवं कुडवम् सर्व्वे (चत्वारः) व्यभजत्त तपस्विनः” “इत्युक्तः प्रतिगृह्याथ सक्तना कुडवं द्विजः” भा० आश्व० ९०, ।
📄 मूल मुद्रित पृष्ठ (2075-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।