कुथोदरी, स्त्री, (कुथं हिंसात्मकमुदरं यस्याः सा ।) निकुम्भदुहिता । कुम्भकर्णपौत्त्री । सा च कल्कि देवेन हता । यथा । मुनय ऊचुः । “शृणु विष्णुयशःपुत्त्र ! कुम्भकर्णात्मजात्मजा । कुथोदरीति विख्याता गगनार्द्धसमुत्थिता ॥ कीलकञ्जस्य महिषी विकञ्जजननी च सा । हिमालये शिरः कृत्वा पादौ च निषधाचले ॥ शेते स्तनं पाययन्ती विकञ्जं प्रस्नुतस्तनी । तस्या निश्वासवातेन विवशा वयमागताः ॥ दैवेनैव समानीताः प्राप्तास्तव पदाम्बुजम् । मुनयो रक्षणीयास्ते रक्षःसु च विपत्सु च ॥ इति तेषां वचः श्रुत्वा कल्किः परपुरञ्जयः । सेनागणैः परिवृतो जगाम हिमवद्गिरिम्” ॥ इत्यादि ॥ “सा क्रुधोत्थाय सहसा ननर्द्द परमाद्भुतम् । तेन नादेन महाता वित्रस्तांश्चाभवन् जनाः । निपेतुः सैनिकाः सर्व्वे मूर्च्छिता धरणीतले ॥ सा रथांश्च गजांश्चापि विवृतास्या भयानका । जघास प्रश्वासवातैः समानीय कुथोदरी ॥ सेनागणास्तदुदरं प्रविष्टाः कल्किना सह । यथर्क्षमुखवातेन प्रविशन्ति पिपीलिकाः ॥ तद्दृष्ट्वा देवगन्धर्व्वा हाहाकारं प्रचक्रिरे । तत्रस्था मुनयः शेपुर्जेपुश्चान्ये महर्षयः ॥ निपेतुरन्ये दुःखार्त्ता ब्राह्मणा ब्रह्मवादिनः । रुरुदुः पृष्ठयोधा ये जहृषुस्तन्निशाचराः ॥ जगतां कदनं दृष्ट्वा सस्मारात्मानमात्मना । कल्किः कमलपत्राक्षः सुरारातिनिसूदनः ॥ वाणाग्निं चेलचर्म्मभ्यां कम्बलैर्यानदारुभिः । प्रज्वाल्योदरमध्येन् करवालं समाददे ॥ तेन खङ्गेन महता कुक्षिं निर्भिद्य बन्धुभिः । बलिभिर्भ्रातृभिर्व्वाहैर्वृतः शस्त्रास्त्रपाणिभिः ॥ वहिर्ब्बभूव सर्व्वेशः कल्किः कल्कविनाशनः । सहस्राक्षो यथा वृत्रकुक्षिं दम्भोलिनेमिना ॥ योनिरन्ध्राद्गजरथास्तुरगाश्चाभवन् वहिः । नासिकाकर्णविवरात् केऽपि तस्या विनिर्गताः ॥ ते निर्गतास्ततस्तस्याः सैनिकारुधिरोक्षिताः । तां विव्यधुर्निःक्षिपन्तीं तरसा चरणौ करौ ॥ ममार सा भिन्नदेहा भिन्नकुक्षिशिरोधरा । नादयन्ती दिशो द्यां खं चूर्णयन्ती च पर्व्वतान्” । इति कल्किपुराणे १६ अध्यायः ॥
📄 मूल मुद्रित पृष्ठ (2-141-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।