🕉️ 27 November 2026, Friday · 04:30:09 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कुन्तीतनय
kuntītanaya
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कुन्तीतनय पु० ६ त० । कुन्त्यां धर्म्मादितो जातेषु ३ युधि- [] ष्ठिरादिषु त्रिषु सूर्य्या जाते ४ कर्ण्णे च । तत्कथा यथा “यस्यां (कुन्त्याम्) स धर्म्मविद्राजा धर्म्माज्जज्ञे युधि- ष्ठिरः । भीमसेनस्तथा वातादिन्द्राच्चापि धनञ्जयः” हरिवं० ३५ अ० । कर्ण्णोत्पत्तिकथा भा० आ० १११ अ० यथा “शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् । तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि । पितृस्वस्रीयाय सुता- मनपत्याय भारत! । अग्र्यमग्रे प्रतिज्ञाय खस्यापत्यं स सत्यवाक् । अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षि- णे । प्रददौ कुन्तिभोजाय सस्ता सख्ये महात्मने । नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने । उग्रं प- र्य्यचरत्तत्र ब्राह्मणं शंसितव्रतम् । निगूढनिश्चयं धर्म्मे यं तं दुर्व्वाससं विदुः । तमुग्रं शंसितात्मानं सर्व्वयत्नै- रतोषयत् । तस्यै स प्रददौ मन्त्रमापद्धर्म्मान्ववेक्षया । अ- भिचारादिभिर्युक्तमब्रवीच्चैव तां मुनिः । यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । तस्य तस्य प्रसादेन तव पुत्रो भविष्यति । तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता । कन्या सती देवमर्कमाजुहाव यश- स्विनी । सा ददर्श तमायान्तं भास्करं लोकभावनम् । विस्मिता चानवाद्याङ्गी दृष्ट्वा तन्महदद्भुतम् । तां समा- साद्य देवस्तु विवस्वानिदमब्रवीत् । अयमस्म्यसितापाङ्गि । ब्रूहि किं करवाणि ते । कुन्त्युवाच । कश्चिन्मे ब्रा- ह्मणः प्रादाद्वरं विद्याञ्च शत्रुहन्! । तद्विजिज्ञास- याह्वानं कृतवत्यस्मि ते विभो! । एतस्मिन्नपराधे त्वां शिरसाहं प्रसादये । योषितो हि सदा रक्ष्याः स्व- पराधेऽपि नित्यशः । सूर्य्य उवाच । वेदाहं सर्वमे- वैतत् यद्दुर्व्वासा वरं ददौ । संत्यज्य भयमेवेह क्रियतां सङ्गमो मम । अमोघं दर्शनं मह्यमाहूत- श्चास्मि ते शुभे! । वृथाह्वानेऽपि ते भीरु! दोषः स्यान्नात्र संशय । वैशम्पायन उवाच । एवमुक्ता बहुविधं सा- न्त्वपूर्व्वं बिवस्वता । सा तु नैच्छद्वरारोहा कन्याह- मिति भारत! । बन्धुपक्षभयाद्भीता लज्जया च यश- स्विनी । तामर्कः पुनरेवेदमव्रवीद्भरतर्षभ! । मत्प्रसा- दान्न ते राज्ञि! भविता दोष इत्युत । एवमुक्त्वा स भगवान् कुन्तिराजसुतां तदा । प्रकाशकर्त्ता तपनः स- म्बभूव तया सह । तत्र वीरः समभवत् सर्वशस्त्र- भृतांवरः! आमुक्तकवचः श्रीमान् देवगर्भः श्रियान्वितः । सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः । अजायत सुतः कर्णः सर्व्वलोकेषु विश्रुतः । प्रादाच्च तस्य कन्यात्व [] पुनः स परमद्युतिः । दत्त्वा च तपतां श्रेष्ठो दिवमा- चक्रमे ततः । दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीन- मानसा । एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत् । गूहमानापचारं सा बन्धुपक्षभयात्तदा । उत्ससर्ज्ज- कुमारं तं जले कुन्ती महाबलम्” । युधिष्ठिरादुत्पत्तिस्तत्रैव १२२ । १२३ अ० यथा “एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् । प्रत्युवाच वरारोहा भर्त्तुः प्रियहिते रता । पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने । उग्रं पर्य्यचरन्तत्र ब्राह्म- णं शंसितव्रतम् । निगूढनिश्चयं धर्म्मे यन्तं दुर्वा- ससं विदुः । तमहं शंसितात्मानं सर्व यत्नैरतोषयम् । स मेऽभिचारसंयुक्तमाचष्ट भगवान् वरम् । मन्त्रन्त्वि- मञ्च मे प्रादादब्रवीच्चैव मामिदम् । यं यं देवं त्वमे- तेन मन्त्रेणावाहयिष्यसि । अकामो वा सकामो वा वशं ते समुपैव्यति । तस्य तस्य प्रसादात्ते राज्ञि! पुत्रो भविष्यति । इत्युक्ताहं तदा तेन पितृवेश्मनि भारत! । ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः । अनुज्ञाता त्वया देवमाह्वयेयमहं नृप! । तेन मन्त्रेण राजर्षे! यथा स्यान्नौ प्रजा हिता । आवाहयामि कं देवं ब्रूहि सत्यवतांवर! । त्वत्तोऽनुज्ञाप्रतीक्षां मां बिद्व्यस्
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬