कुब्जा स्त्री कंसभवनस्थे सैरिन्ध्रीभेदे यां पद्भ्यामाक्रम्य कृष्णः सुरूपां चकार तत्कथा भाग० १० स्क० ४१ अ० यथा “अथ व्रजन् राजपथेन माधवः स्त्रियं गृहीताङ्गविले- सभाजनाम् । विलोक्य कुब्जां युवतीं वराननां पप्रच्छयान्तीं प्रहसन्रसप्रदः । का त्वं वरोर्वे! तदुहानुलेपनं कस्याङ्गने! वा कथयस्व साधु नः । देहावयोरङ्गविलेपमुत्तमं श्रेय स्ततस्ते नचिराद्भविष्यति । स्वैरिन्ध्र्युवाच । दास्यस्म्यहं सुन्दर! कंससम्मता त्रिवक्रनामा ह्यनुलेपकर्म्मणि । मद्भावितंभोजपतेरतिप्रियं विना युवां कोन्यतमस्तद र्हति । रूपपेशलमाधुर्य्यैर्हसितालापवीक्षिता । धर्षि- तात्मा ददौ सान्द्रमुभयोरनुलेपनम् । ततस्तावङ्गरागेण सुवर्णेतरशोभिना । संप्राप्तपरभागेण शुशुभाते सुरञ्जितैः । प्रसन्नोभगवान् कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्त्तुं मनश्चक्रे दर्शयन् दर्शने फलम् । पद्भ्यामाक्रम्य [] प्रपदे द्व्यङ्गुलोत्तानपाणिना । प्रगृह्य चिवुकेऽध्यात्ममुद- नीनमदच्युतः । सा तदर्जुसमानाङ्गी वृहच्छ्रोणिपयो- धरा । मुकुन्दस्पर्शनात् सद्योबभूव प्रमदोत्तमा” ।
📄 मूल मुद्रित पृष्ठ (2105-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।