कुरण्ड पु० कुर--अण्डक् १ साकरुण्डवृक्षे राजनि० । २ अण्डवृद्धिरोगे हेमच० तन्निदानादि माधवनिदा- नोक्तं यथा- “क्रुद्धोऽनूर्द्धगतिर्वायुः शोथशूलकरश्चरन । मुष्कौ [] --वङ्क्षणतः प्राप्य फलकोपाभिवाहिनोः । प्रपीड्य धमनी र्वृद्धिं करीति फलकोषयोः । दोषास्रमेदोमूत्राम्भोभिर्वृद्धः सप्तधा गदः । मूत्रान्द्रजातावनिलाद्धेतुभेदश्च केवलम् । वातपूर्णाङ्गतस्पर्शे रूक्षोवातादहेतुरुक् । पक्वोडुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान् । कफा- च्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक् । कृष्ण- स्पोटावृतः पित्तवृत्तिलिङ्गश्च रक्तजः । कफवन्मेदसा वृत्तिर्मृदुस्तालफलोपमः । मूत्रवारणशीलस्य मूत्रजः स तु गच्छतः । अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरु- ङ्मृदुः । मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः । वातकोपिभिराहारै, शीततोयावगाहनैः । धारणे रण भाराध्वविषमाङ्गप्रवर्त्तनैः । क्षोभणैः क्षुभितश्चान्यैः क्षुद्रान्त्रावयवं यदा । पवनो विगुणीकुत्य स्वनिवेशादधो- नयेत् । कुर्य्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तथा । उपेक्षमाणस्य च मुष्कवृद्धिमाध्मानरुक् स्तममवतीं स वायुः । प्रपीडितोऽन्तःस्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः । अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः”
📄 मूल मुद्रित पृष्ठ (2122-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।