कुलनाशन न० कुलं नाशयत्यनेन नश--णिच्--करणे ल्युट् । वंशध्वंससाधने । “मुसलं कुलनाशनम् । यथा च मु- सलेन वृष्णिप्रभृतिकुलनाशनं तथा भा० सौ० १ अ० उक्तं यथा “विश्रामित्रञ्च कण्वञ्च नारदञ्च तपोधनम् । सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान् । ते तान् शाम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा । अव्रुवन्नुपसङ्गम्य दैवदण्डनि- पीडिताः । इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः । ऋषयः साधु जानीत किमयं जनयिष्यति । इत्युक्तास्ते तदा राजन् विप्रलम्भप्रधर्षिताः । प्रत्युब्रुवस्तान्मुनयो यत्तच्छृणु नराधिप! । वृष्ण्यन्धकविनाशाय मुसलं वोर- मायसम् । वासुदेवस्य दायादः शाम्बोऽयं जनयिष्यति । येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः । उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्द्दनौ । समुद्रं यास्यति श्री- मांस्त्यक्त्वा देहं हलायुधः । जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति । इत्यब्रुवंस्ततो राजन्! प्रल- ब्धास्तैर्दुरात्मभिः । मुनयः क्रोधरक्ताक्षाः सभीक्ष्याथ प- रस्परम् । तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः । अथा- ब्रवीत्तदा वृष्णीन् श्रुत्वैवं मधुसूदनः । अन्तज्ञो मतिमां- स्तस्य भवितव्यं तथेति तान् । एवमुक्त्वा हृषीकेशः प्रवि- वेश पुरन्तदा । कृतान्तमन्यथा नैच्छत् कर्त्तुं स जगतः प्रभुः । श्वोभूतेऽथ ततः शाम्बो मुसलं तदसूत वै । येन वृष्ण्यन्धककुले पुरुषा भस्मभात्कृताः । वृष्ण्यन्धकविना- शाय किङ्करप्रतिमं महत् । असूत शापजं घोरं तच्च राज्ञे न्यवेदयन् । विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकार- यत् । तच्चूर्णं सागरे चापि प्राक्षिपन् पुरुषा नृप!” चूर्णीकृतस्य तर्स्यसमुद्रे एरकाभावमुक्त्वा एरकाभूतेन सुसलेन ३ अ० परस्परनाशोवर्णितः यथा “ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा । युयुधान- मथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा । हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः । तदनन्तरमागच्छन्मोक्षयिष्यत शिनेः सुतम् । स भोजैः सह संयुक्तः सात्यकिश्चान्धलैः सह । व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ । बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः । हतं दृष्ट्वा तु शैनेयं पुत्रञ्च यदुनन्दनः । एरकाणान्तदा मुष्टि [] कोपाज्जग्राह केशवः । तदभून्मुसलं घोरं वज्रकल्पम- योमयम् । जघान कृष्णस्तांस्तेन ये ये प्रमुखतोऽभवन् । ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा । जघ्नुरन्यो- न्यमाक्रन्दे मुसलैः कालचोदिताः । यस्तेषामेरकां कश्चि- ज्जग्राह कुपितो नृष! । वज्रभूतेव सा राजन्नदृश्यत तदा विभो । तृणञ्च मुसलीभूतमपि तत्र व्यदृश्यत । ब्रह्मदण्ड- कृतं सर्वमिति तद्विद्धि पार्थिव! । अविध्यन् विध्यते रा- जन्! प्रक्षिपन्ति स्म यत्तृणम् । तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् । अबधीत् पितरं पुत्रः पिता पुत्रञ्च भारत! । मत्ताः परिपतन्ति स्म योधयन्तः परस्परम् । पतङ्गा इव चाग्नौ ते निपेतुः कुकुरान्धकाः । नासीत् पलायने बुद्धि- र्बध्यमानस्य कस्यचित् । तत्रापश्यन्महाबाहुर्ज्जानन् का- लस्य पर्य्ययम् । मुसलं मभवष्टभ्य तस्थौ स मधुसूदनः । शाम्बञ्च निहतं दृष्ट्वा चारुदेष्णञ्च सान्वयम् । प्रद्युम्नञ्चा- निरुद्धञ्च ततश्चुक्रोध माधवः । गदं वीक्ष्य शयानञ्च भृशं कोपसमन्वितः । स निःशेषं तदा चक्रे शार्ङ्गचक्रगदा- धरः । तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः । दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् । भगवन्निहताः सर्वे त्वया भूयिष्ठशो नराः । रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ।” भावे ल्युट् । २ वंशनाशने च ।
📄 मूल मुद्रित पृष्ठ (2132-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।