🕉️ 23 November 2026, Monday · 10:17:54 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कुलायिनी
kulāyinī
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कुलायिनी (इनी), f. an aviary, Gal.
N. of a liturgical service, TāṇḍyaBr.; Lāṭy. Comm. on Nyāyam.
📄 मूल मुद्रित पृष्ठ (296,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कुलायिनी स्त्री व्युत्पत्तिः मा० भाष्योक्ता । त्रिवृत्स्तोमस्य वि- ष्टुतिभेदे तत्प्रकारादिकं ताण्ड्य० ब्रा० ३ अ० दर्शितं यथा । “अथ कुलायिनीं विष्टुतिन्दर्शयति” माधवभाष्यम् “तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति या मध्यमा सा प्रथमा, योत्तमा सा मध्यमा, या प्र- थमा सोत्तमा, तिसृभ्यो हिङ्करोति योत्तमा सा प्र- थमा, या प्रथमा सा मध्यमा, या मध्यमा सोत्तमा, कुलायिनी त्रिवृतो विष्टुतिः” ब्रा० “परिवर्त्तिन्याइव प्रथमः पर्य्यायः पराचीभिः । द्वि- तीये पर्य्याये तृचस्य या मध्यमा ऋक् सा प्रथमा कार्य्या । योत्तमा सा मध्यमा कार्य्या । या प्रथमा सोत्तमा कार्य्या । तृतीयः पर्य्यायः निगदसिद्धः । कुलायिनी कुलायो नीडं पक्षिणां निवासस्थानं त- द्यथा व्यस्ततृणादिनिर्म्मितम् एवं व्यत्यासयुक्ता ऋचः कुलायास्तैस्तद्वती कुलायिनी एतत्संज्ञा त्रिवृत्- स्तोमस्य विष्टुतिरियम्” “अस्यां विष्टुतौ कोऽधिकारीत्यत आह” भा० “प्रजाकामो वा पशुकामो वा स्तुवीत प्रजा वै कुलाय- म्पशवः कुलायङ्कुलायमेव भवति” ब्रा० “प्रजानाम्पशूनाञ्च कुलायवदवस्थितिहेतुत्वात् कुलाय- त्वेन स्तुतिः । कुलायिन्या स्तुवानोऽपि प्रजानां पशू- नाञ्च कुलायमेव आश्रयभूतो भवत्येव” । “पुनरप्यधिकारिविशेषं दर्शयति” भा० “एतामेवानुजावराय कुर्य्यादेव तासामेवाग्रं परिय- तीनां प्रजानामग्रम्पर्य्येति” ब्रा० [] “अनु पश्चाज्जायत इत्यनुजः कनीयान् सहि निकृष्टः तस्मादप्यवरो निकृष्टः अनुजावरस्तादृशाय यजमा- नायेति । अग्रं परियतीनां लोके याः प्रजाः अग्रं वयोगुणादिभिः श्रेष्ठपदं परियन्ति परितो गच्छन्ति एतासामेव श्रैष्ट्यं परिगच्छन्तीनां प्रजानाम्मध्ये स य- जमानः अग्रं श्रेष्ठं पदं पर्य्येति परिगच्छति सर्व्वो- त्कृष्टो भवतीत्यर्थः” “सत्रेष्वहीनेषु च बहूनां यजमानानां फलसाम्यात् कुलायिनीं विधत्ते” भा० “एतामेव बहुभ्यो यजमानेभ्यः कुर्य्यात् यत्सर्वा अग्रिया भवन्ति सर्वा मध्या सर्वा उत्तमाः । सर्वानेवैनान् समाव- द्भाजः करोति नान्योन्यमपघ्नते सर्वे समावदिन्द्रिया भवन्ति” ब्रा० “एतामेव कुलायिनीन्त्रिवृतो विष्टुतिं बहुभ्यो यज- मानेभ्यः उद्गाता कुर्य्यात् यत् यस्माद्धेतोः तृचगताः सर्वा ऋचः अग्रिया मुख्याः प्रथमा भवन्ति सर्वासु मध्ये वर्त्तमाना भवन्ति सर्वाश्चोत्तमा भवन्ति तद्यथा प्रथमे पर्य्याये प्रथमैव प्रथमा भवति । मध्यमे तु मध्यमा प्रथमा भवति । उत्तरे उत्तमा प्रथमा भवति । एवं सर्वासां प्राथम्यं जातम् । तथा प्रथमपर्य्याये मध्यमैव मध्यमा द्वितीये पर्य्याये उत्तमैव मध्यमा तृतीये पर्य्याये प्रथमैव मध्यमा । एवं सति तिस्रोऽपि मध्यमाः स- म्पन्नाः । तथा प्रथमे पर्य्याये उत्तमोत्तमा भवति । द्वितीये पर्य्याये प्रथमैवोत्तमा भवति । तृतीये पर्य्याये मध्यमैवोत्तमा भवति । एवं सर्वा अप्युत्तमाः सम्पन्नाः । यस्मादेताः सर्वा ऋचः समानरूपाः ततो हेतोरनया विष्टुत्या सर्वानेवैनान् यजमानानुद्गाता समावद्भाजः समावच्छब्दः समपर्य्यायः समं फलं भजन्त इति समा- वद्भाजः साम्येन फलभाजः करोति । अतएव नान्यो- न्यमपघ्नते परस्परन्न हिंसन्ति । तथा सर्वे यजमानाः समावदिन्द्रियाः समावद्वीर्य्याः समानसामर्थ्या भवन्ति” । “फलान्तरमाह” भा० “वर्षुकः पर्ज्जन्यी भवतीमे हि लोकास्तृ चस्तान् हिङ्कारेण व्यतिषजति” ब्रा० “लोकस्थानीयानां तिसृणामृचामादौ प्रयुक्तेनैके- नैव हिङ्कारेण व्यतिषञ्जनात् संयोजनात् त्रयाणां लोकानां परस्परमुपकार्य्योपकारकभावो न वाधित इति पर्ज्जन्यो वर्षणशीलो भवतीत्यर्थः” । [] “अस्यामपि विष्टुतौ बहुदोषाः सम्भवन्तीत्याह” भा० “पापवसीयसन्तु भवति” ब्रा० “तुशब्दः फलव
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬