कुलिक त्रि० कुलमधीनत्वेन प्राशस्त्येन वास्त्यस्य ठन् । १ कुल- श्रेष्ठे मेदि० २ शिल्पिकुल, प्रधाने अमरः । (कुलेखाडा) इति प्रसिद्धे ३ शाकभेदे पु० मेदि० महानागान्तर्गते ४ नागभेदे पु० “शेषः पद्मो महापाद्मः कुलिकः शङ्खपालकः । वासु- किस्तक्षकश्चैव बालियोमणिभद्रकः । ऐवावतो धृतराष्ट्रः [] कर्कोटकधनञ्जयौ” तिथित० पु० “ततोऽधस्तात् पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्ख श्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो म- हाभोगिनो महामर्षा निवसन्ति” भाग० ५ । २४ । ३ । “कुलिकोऽर्द्धचन्द्रमौलिर्ज्वालाधूमसमप्रभः” हेमा० तद्रू- पमुक्तम् । तन्त्रे तु तस्य पाटलतोक्ता । उग्रताराशब्दे १०५६ पृ० तद्वाक्यमुक्तम्ः “भुजेषु नागः कुलिकोऽङ्गदोमतः” । तस्य उग्रतारा- ङ्गदभूषणत्वमुक्तम् । रव्यादिवारेषु दिवारात्र्योः ५ दुष्टमु० हूर्त्तभेदे यथाह मुहु० चि० “शक्रार्कदिग्वसुरसाब्ध्यश्विन्यः कुलिका रवेः । रात्रौ नि- रेकास्तिथ्यंशाः शनौ चान्त्योऽपि निन्दितःः” । रविमा- रभ्य सर्ववारेषु क्रमादुक्तसंख्यास्तिथ्यं शामुहूर्त्ताः कुंलिकाः स्युः । यथा रवौ दिने १४, मुहूर्त्तः चन्द्रे १२, मङ्गले १०, बुधे ८, गुरौ ६, शुक्रे ४, शनौ २ कुलिकः रात्रावेते निरेकाः कार्य्याः । यथा रवौ १३, चन्द्रे ११, भौमे ९, बुधे ७, गुरौ ५, शुक्रे ३, शनौ १, शनौ तु अन्त्यः पञ्चदशदशमु- हूर्त्तोऽपि कुलिकः । एते निन्दिताः । अस्यापवादमाह गुरुः “वारेशे सबले चापि बलाट्ये लग्नगे शुभे । कुलिकोद्भव- दोषस्तु विनश्यति न संशयः । शुभे केन्द्रगते चन्द्रे शुभांशे वा शुभेक्षिते । लग्नगे सबले वापि कलिकस्तु विलीयते” अन्यत्र दोषमाह वशिष्ठः “निधनं प्रहरार्द्धे तु निःस्वत्वं यमवण्टके । कुलिके सर्वनाशः स्यात् रात्रायेते न दोषदाः” रात्रावेते न दोषदा इत्यस्यापवादो रत्नकोषे “तमस्विनी- गन्धमुपेत्य वारदोषास्तथा शक्तिमनाप्नुवन्तः । अल्वं स- मासाद्य विलासिनीनां कटाक्षवाणाइव निष्फलाः स्युः” न वारदोषाः प्रभवन्ति रात्रौ देवेज्यदैत्येज्यदिवाकराणाम् । दिवा शशाङ्कार्कजभूसुतानां सर्व्वत्र निन्द्यो बुध० वारदोषः” । शुभकृत्यानामावश्यकत्वे देशभेदेनापवा- दमाह गर्गः । “विन्धस्योत्तरकूले तु यावदातुहिनाच- लम् । यमघण्टकदोपोऽस्ति नान्यदेशेषु विद्यते । मत्स्या- ङ्गमगधान्ध्रेषु यमवण्टस्तु दोषकृत् । काश्मीरे कुलिकं दुष्टमर्द्धयामस्तु सर्व्वतः” । कुलिकस्य विशेषप्रयोजनन्तु “जपित्वा सितगुञ्जानां कुडकं कुलिकोदये” शारदायाम् नवदुर्गाभिचारकर्म्माङ्गतयोक्तम् । तट्टीकायां राघवभट्टेन च “मन्वर्कदिग्वस्वृतुवेदपक्षैरर्कान्मुहूर्त्तैः कुलिका भव- न्ति । दिवा निरेकैरथ यामिनीषु ते गर्हिताः कर्म्मसु शोभनेषु” इत्युक्तम् निरेकैः पूर्व्वोक्तमन्वादिमुहूर्त्तैरे- [] कोनैरित्यर्थः” “न्यूनाधिमासकुलिकप्रहरार्द्धपातविष्कु- म्भवज्रघटिकात्रयमेव वर्ज्यम्” मुहु० चि० तस्य सर्व- कर्म्मणि वर्ज्जनीयतामाह
📄 मूल मुद्रित पृष्ठ (2138-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।