कुशासन न० कुशैर्निर्म्मितमासनम् । कुशनिर्म्मिते आसने “कुशासनमनन्तरम्” श्राद्धक्रमः । तत्स्वरूपादि श्रा० त० “अथ कुशासनम् तत्र गोभिलः “पित्र्ये द्विगुणांस्तु दर्भान् पवित्रपाणिर्दद्यादासीनः सर्वत्र प्रश्नेषु पङ्क्तिमूर्द्ध- न्यं पृच्छति सर्वान् वा सर्वत्रासनेषु दर्व्भानास्तीर्य्येति” पित्र्ये पित्रर्थदाने तत्रादौ जलगण्डूषप्रक्षेपः । ततोद्वि गुणभुग्नकुशपत्रत्रयं पितॄणामासनार्थं दद्यात् एतच्च आदौ विश्वदेवपक्षे कृत्वा पितृपक्षे कर्त्तव्यं तथा च याज्ञवल्क्यः “पाणिप्रक्षालनं दत्त्वा उषन्तस्त्वेत्यृचा पितॄन्” । प्रक्षाल्यतेऽनेनेति प्रक्षालनं जलं तेन तूष्णीं ब्राह्मण- पाणौ जलंदत्त्वा विष्टरार्थमासनार्थमिति दीपक- लिका । कुशान् ऋजून दद्यात् । व्यक्तमाहाश्वलायनः “अपः प्रदाय दर्भान् द्विगुणभुग्नानासनं प्रदाय” इति आसनमित्यनेनोपवेशनीयत्वप्रतीते र्हस्तं तददानं प्रती- यते । तथाच कार्ष्णाजिनिः “दर्भांश्चैवासने दद्यान्न तु पाणौ कदा चन । पितृदेवमनुष्याणामेवं तृप्तिर्हि शाश्वती” । अत्र पितृदेवमनुष्येभ्योऽपि कुशासनदानं प्र तीयते । अत्र दैविकत्वेन कुशानां ऋजुत्वमिति विशेषः । देवपितृविप्रवोर्दक्षिणवामयोः कुशासनस्यापनमाह श्रा द्धसूत्रभाष्यधृतवचनम् । “पितॄणामासनं दद्याद्वाम- पार्श्वे कुशान् सुधीः । दक्षिणे चैव देवानां सर्वत्र श्राद्ध- कर्म्मसु” । कोः पृथिव्या २ शासने च । अब्राह्मणोऽपि कुशासनसहितः”
📄 मूल मुद्रित पृष्ठ (2148,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।