🕉️ 28 November 2026, Saturday · 02:15:10 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

कूर्मचक्र
kūrmacakra
🔵 मोनियर-विलियम्स🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
कूर्म—चक्र n. N. of a mystical diagram.
📄 मूल मुद्रित पृष्ठ (300,2)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
कूर्म्मचक्र न० कूर्म्माकारं चक्रम् । १ तन्त्रोक्ते ग्राह्यमन्त्र शुभादिसूचके कूर्म्माकारे चक्रभेदे । तत्स्वरूपादि रुद्र- यामले उक्तं यथा “कूर्म्मचक्रं प्रवक्ष्यामि शुभाशुभफलात्मकम् । यज् ज्ञात्वा सर्व्वशास्त्रार्थं जानाति पण्डितोत्तमः । अभेद्यं भेदकं चक्रं शृणुष्वादरपूर्व्वकम् । कूर्म्माकारं महाचक्रं चतु- ष्पादसमावृतम् । तुण्डे स्वरान्, दक्षपादे कवर्गं, वामपा- दके । चवर्गं, कीर्त्तितं पश्चात् अधःपादे टवर्गकम् । तद- धस्तु तवर्गः स्यादुदरे च पवर्गकम् । यवान्तं हृदये प्रोक्तं शहान्तं पृष्ठमध्यके । लाङ्गूले शक्रवीजञ्च(लं) क्षकारं लिङ्गमध्यके । लिस्वित्वा गणयेण्मन्त्री चक्राकरं मलापह- म् । स्वरे लाभः कवर्गे श्रीश्चवर्गश्च विवेकदः । टवर्गे राज- पदवी तवर्गे धनवान् भवेत् । उदरे सर्वनाशः स्यात् हृदये बहुदुःखभाक् । पृष्ठे च सर्व्वसन्तापः लाङ्गूले मरणं ध्रुवम् । वैष्णवे पृष्ठदेशे तु दुःस्यञ्च वामपादके । विरुद्धद्वयलाभे तु न कूर्य्याच्चक्रचिन्तनम् । विरुद्धैके धर्म्म- नाशो युग्मदोषे च मारणम् । यत्र देवाक्षरञ्चास्ति तत्र चेन्निजवर्णकम् । विरुद्धञ्च त्यजेच्चक्रमन्यमन्त्रं विचारयेत् । पृथक् होमे यदि भवेत् वर्णमाला महेश्वर! ! यदि तत् सौख्यभाषः स्यात् तत् सौख्यं नापि वर्ज्जयेत् । विभिन्नगेहे दोषश्चेत् शुभमन्त्रञ्च संत्यजेत् । इति ते कथितंदेव! दृष्टा- दृष्टफलप्रदम् । ये शोधयन्ति चक्रेन्द्रं मन्त्रसिद्धिप्रदं शुभम्” । २ जपाङ्गदेशभेदसूचके चक्रभेदे तत्स्वरूपं तन्त्रसारे उक्तं यधा “दीपस्थानं समाश्रित्य कृतं कर्म फलप्रदम् । दीप्यते पुरुषो यत्र दीपस्थानं तदुच्यते । चतुरस्रां भुवंभित्त्वा कोष्ठानां नवकं लिखेत् । पूर्व्वको- ष्ठादि विलिखेत् सप्तवर्गाननुक्रमात् । लक्षमीशे मध्यकोष्ठे स्वरान् युग्मक्रमाल्लिखेत् । दिक्षु पूर्वादितो यत्र क्षेत्रा- [] द्यक्षरसंस्थितिः । मुखं तत्तस्य जानीयात् हस्तावुभयतः स्थितौ । कोष्ठे कुक्षी उभे पादौ द्वे शिष्टे पुच्छमी- रितम् । क्रमेणानेन विभजेत् मध्यस्थमपि भागतः । मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः । उदा- सीनः कुक्षिसंस्थः पादस्थो दुःस्वमाप्नुयात् । पुच्छस्थः पीड्यते मन्त्री बन्धनोच्चाटनादिभिः । कूर्मचक्रमिदं प्रोक्तं मन्त्रिणां सिद्धिदायकम्” पिङ्गलायाम् “कूर्मचक्रमवि- ज्ञाय यः कुर्य्याज्जपयज्ञकम् । तस्य यज्ञफलं नास्ति सर्व्वानर्थाय कल्पते” । ३ ज्योतिषोक्ते नक्षत्रभेदेन देशभेदानां शुभाशुभज्ञापके कूर्म्माकारे चक्रे च तन्निरूपम् ज्यो० त० यथा “प्राङ्मुखो भगवान् देवः कूर्मरूपी व्यवस्थितः । आक्रम्य भारतं वर्षं नवभेदंयथाक्रमम्” । तत्र नखत्रन्यासक्रमः “मध्यप्रागग्नियाम्यादि कृत्तिकादित्रयत्रयैः । क्रूर- वेधयुतैस्तैस्तु पीड्यन्ते तन्निवासिनः” । तत्र वेधो यथा “पूर्वापरे भवेद्वेधो वेधश्चोत्तरदक्षिणे । ईशानराक्ष से वेधो वेध आग्नेयमारुते । तारात्रयान्वितं तत्र सौरिं यत्ने- न चिन्तयेत्” । तत्र वेधादिजन्यदोषाः “अतिवृष्टिग्नावृष्टिः शलभा मूषिकाः खगाः । स्वचक्रं परचक्रञ्च सप्तैते स- म्भवन्ति च । एवं देशगृहग्रामक्षेत्रनामर्क्षतो वदेत् । तयाच यत्र नक्षत्रे दिव्यपार्थिवनाभसाः । दृश्य न्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् । सौरि र्बलाधिको दुष्टः, स्वल्पवीर्य्यः शुभावहः । एकदा पीड- येद्यत्र भानुजः कूर्मचक्रके । तत्र स्थाने महाविघ्वो जाय- ते नात्र संशयः । दुष्टस्थाने गते चन्द्रे कर्त्तव्यं शान्तिपौष्टिकम् । दूष्यदेशभेदाश्च कूम्मविभागशब्दे दृश्याः
📄 मूल मुद्रित पृष्ठ (2167-a)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬