कृतकर्म्मन् त्रि० कृतं कर्म्म येन । १ दक्षे चतुरे कार्य्यक्षमे हेम० । २ कृतस्वकार्य्ये च “यावदस्तं न यात्येष कृतकर्म्मा दिवाकरः” रामा० । कर्त्तव्यताशून्ये ३ परमेश्वरे पु० । “इन्द्रकर्म्मा महाकर्म्मा कृतकर्म्मा कृतागमः” विष्णु स० “कृतमेव न कर्त्तव्यं किञ्चित् कर्म्मास्य विद्यते धर्म्मा- त्मकं कर्म्म कृतं वा कृतकर्म्मा” भा० । कृतकार्य्यकृतकृ त्यादयोऽप्यत्र त्रि० “समूहकार्य्यआयतान् कृतकार्य्यान् विसर्ज्जयेत्” या० स्मृ० । “यथेष्टं गम्यतां तत्र कृतकार्य्यावयं त्वया” भा० आनु० ३८६२ श्लो० । “कृतकृत्योविधिर्मन्ये न वर्द्धयति तस्य ताम्” माघः । ५ ऋणत्रयाद्विमुक्ते संन्यासिनि । “ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । वैकास्ति किञ्चित् कर्त्तव्यमस्ति चेन्न स तत्त्ववित्” इत्युक्त्या तस्य समाप्तकृत्यत्वात्तथात्वम् “कृतकृत्यस्तु संन्यस्य स्वात्म- मात्ररतिर्भवेत्” । अकृतकृत्योहि मृत्योर्बिभेति यथाह “प्रायेणाकृत्यकृतत्वान्मृत्योरुद्विजते जनः” इति ।
📄 मूल मुद्रित पृष्ठ (2178,a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।