केमद्रुमः, पुं, जन्मकालीनग्रहयोगविशेषः । यथा । “रविवर्ज्जं द्वादशगैरनफा चन्द्रात् द्वितीयगैः सुनफा । उभयस्थितैर्दुरधुरा केमद्रुमसंज्ञितो ऽन्यः” ॥ [] अनफादियोगः । सच्छीलं विषयसुखान्वितं प्रभु ख्यातियुक्तमनफायाम् । सुनफायां धीधनकीर्त्ति- युक्तमात्मार्ज्जितैश्वर्य्यञ्च ॥ बहुभृत्यकुटुम्बारम्भ मुद्विग्नचित्तमपि दौरधुरे । भृतकं दुःखिनमधनं जातं केमद्रुमे विद्यात् ॥ अनफादिफलम् । इति ज्योतिस्तत्त्वम् ॥ (केमद्रुमयोगे जातंस्य फलं यथा, जातकपद्धतौ । “नृपतेर्वंशजातोऽपि केमद्रुमभवो नरः । मलिनो दुःखितो नीचो निःस्वो दासो भवेत्खलः” ॥ तद्भङ्गस्तु तत्रैव । “चन्द्रे केन्द्रगतेऽथवा ग्रहयुते सर्व्वैश्च दृष्टे विधौ सर्व्वैः कण्टकसंज्ञितैर्ग्रहयुतैः केमद्रुमो नेष्यते । लग्नाद् विधो र्वा वृद्धिस्थैः शुभैः सर्व्वं शुभं फलं । द्वाभ्यां मध्यं तथैकेनाल्पं चेन्नास्ति द्ररिद्रता” ॥)
📄 मूल मुद्रित पृष्ठ (2-194-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।