केशराजः, पुं, (केशो राजतेऽनेन् । राज + करणे घञ् ।) शाकभेदः । केशुरे इति भाषा । तत्प- [] र्य्यायः । भृङ्गराजः २ भृङ्गः ३ पतङ्गः ४ मा- र्करः ५ । इति रत्नमाला ॥ मार्कवः ६ । इत्य- मरः ॥ नागमारः ७ पवरुः ८ भृङ्गसोदरः ९ । इति त्रिकाण्डशेषः ॥ केशरञ्जनः १० केश्यः ११ । कुन्तलवर्द्धनः १२ । इति वैद्यकम् ॥ अङ्गारकः १३ एकरजः १४ करञ्जकः १५ भृङ्गरजः १६ भृङ्गारः १७ । इति जटाधरः ॥ अजागरः १८ भृङ्गरजाः १९ मकरः २० । इति शब्दरत्नाघली ॥ अपि च । “भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एव च । भृङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ॥ भृङ्गराजः कटुस्तिक्तो रूक्षोष्णः कफवातनुत् । केश्यस्त्वच्यः कृमिश्वासकासशोथामयापहृत् ॥ दन्त्यो रसायनो बल्यः कुष्ठनेत्रशिरोऽर्त्तिजित्” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । अग्निकारित्वम् । केशचक्षुर्हितत्वम् । पाण्डुकफापहत्वम् । रसा- यनत्वञ्च । इति राजवल्लभः ॥
📄 मूल मुद्रित पृष्ठ (2-196-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।