कैटभी, स्त्री, (केटभं तदाख्यया प्रसिद्धं असुरं प्रति इः हननक्रियारूपतेजःप्रकाशोऽस्याः ।) यद्वा, कूटं तमःप्रधानभावमधिष्ठाय तामसी प्रकृति- रिति विश्रुता देवकार्य्यसाधनानुरोधात् तद्वत्त्वया भातीति । कूट + अणि वृद्धौ कौटं पृषोदरात् औकारस्य ऐकारत्वं कैटं भा + कः । ततो ङीप् कैटभी तामसीत्यर्थः ॥) दुर्गा । इति त्रिकाण्ड- शेषः । (मधुकैटभभीतब्रह्मणस्तुत्या प्रसादिततया तामस्या विमोहितौ तौ दुर्द्दान्तावसुरौ विष्णुना निहतौ । यथा, मार्कण्डेयपुराणे देवीमाहात्म्ये ८१ अध्याये । “एवं स्तुता तदा देवी तामसी तत्र वेधसा । विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ॥ नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ! निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः” ॥ इत्युपक्रम्य । “समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः । पञ्चवर्ष सहस्राणि बाहुप्रहरणोविभुः ॥ तावप्यति बलोन्मत्तौ महामायाविमोहितौ । उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्” ॥)
📄 मूल मुद्रित पृष्ठ (2-198-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।