कोटिज्या स्त्री सू० ति० उक्ते अहस्पटतासाधनाङ्गे चा- पावयवभेदे तदानयनं यथा “गताद्भुजज्या विषमे गम्यात् कोटिः पदे भवेत् । युग्मे तु गम्याद्वाहुज्या कोटिज्या तु मताद्भवेत्” सू० सि० । “वि- षमे पदे गताद्ग्रहस्य पदादितो यद्गतं राशित्रिभागात्मकं- प्राग् ज्ञातं तस्मादित्यर्थः भुञज्या स्यात् । गम्याद्गतोनं त्रिभं ग्रहात् पदान्तावधिकमेत्यम् । तस्मात् कोटिः के- टिज्या स्यात् । युग्मे समे तुकारात् पदे एव्याद्भुजज्या, गतात् कोटिज्या स्यात् तुकारो विशेषद्योतकः । एकस्मा- देवोक्तरीत्या द्वयं साधितमित्यर्थः । अत्रोपपत्तिः विषमपदे ग्रहोच्चोर्ध्वाधररेखान्तरानुसारेण फलमुत्पद्यते ततो वृ- त्तात्तस्तदतरमर्धज्या भूजरूपा तदर्द्धचाप तदन्तरांशा [] वृत्तभागस्था गताः । ऊर्ध्वाधररेखामत्स्यसम्पन्नतिर्यग्रे- खाग्रहयोरन्तरसूत्रमर्धज्यापदान्तः कोटिज्या भुजोत्क्र- मज्योनव्यासार्धरेखारूपकोटितुल्यत्वात् । तदद्धचापं भु- जांशोनं त्रिभमित्रि गम्यात् कोठिज्या । समपदे ग्रहोर्ध्वा- धररेखान्तर तिर्यगर्धज्या भुजज्येति तदर्धं चापं यद्येष्यं तिर्यग्रेखाग्रहान्तरं तिर्यगर्धज्याकोटितुल्यत्वात् कोटि- स्तच्चापं पदगतमित्युपपन्नं गतादित्यादि” रङ्गनाथः
📄 मूल मुद्रित पृष्ठ (2264-a) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।