कोटिफल न० ६ त० । त्रिकोणादिक्षेत्रावयवस्य कोटेः फले । सि० शि० तदायनप्रकारोदर्शतोयथा । “स्वेनाहते परिधिना भुजकोटिजीवे भांशै ३६० र्हृते च भुजकोटिफलाह्वये स्तः” मू० । “अत्रोपपत्तिः । यावत् केन्द्रप्रतिमण्डले ताव- देव नीचोच्चवृत्ते स्यात् । अतः प्रतिमण्डलदोःकोटिज्ये अनुपातेन नीचोच्चवृत्ते परिणाम्येते यदिभांशवृत्ते ३६० एते दोः कोटिज्ये तदा परिध्यंशवृत्ते किमिति । अथवा त्रि- ज्याव्यासार्धे एते दोःकोटिज्ये तदान्त्यफलज्याव्यासार्धे किमिति । फलं तुंल्यमेव” प्रमि० । उक्तञ्च सू० सि० रङ्गनाथाम्यां यथा “तद्गुणे भुजकोटिज्येभगणांशविभाजिते । तद्भुजज्याफल- धनुर्मान्दं लिप्तादिकं फलम्” मू० “भुजकोटिज्ये मन्द- शीघ्रान्यतरसम्बन्धेन केन्द्रभुजकोटिज्ये तद्गुणे स्वीयस्फु- टपरिधिना गुणिते मगणांशैः षष्ट्यतिकशतत्रयेण भक्ते भुजफतकोटिफले भवतः । मन्दकेन्द्रभुजज्योत्पन्नफलस्य धनुःफलादिकं मान्दं फलं भवदि । अत्रोपपत्तिः । कक्षास्थोच्चस्थानस्थितदेवतया स्वहस्तस्थितसूत्रपोतं ग्रह- विव्वं स्वाभिमुखाकर्पणेन कक्षास्थमध्यग्रहस्थानात् पर- मफलज्यान्तरितस्थाने आकर्षणसूत्रमार्गरूपतिर्यक्कर्ण- मार्गेणाकृयते । तेन मध्यग्रहस्थानीयकक्षाप्रदेशादन्त्यफ- [] लज्याव्यासार्धेनोत्पन्नवृत्ते भगणांशाङ्किते भूमध्यग्रहस्पृ- ग्रेस्वासक्ततद्वृ त्तप्रदेशरूपोच्चस्थानात् केन्द्रान्तरेण कक्षावि- परीतमार्गे तद्वृत्तपरिधौ ग्रहो भवति । तस्मिन्नीचोच्च- वृत्ते ऊर्ध्वरेखाग्रहयोस्तिर्यगन्तरसूत्रमर्धज्याकारं पर- मफलज्यानुरुद्धं भुजफलम् । तस्मिन्नेव वृत्ते व्यासमित- तिर्यग्नेखाग्रहयोरन्तरमूर्ध्वाधरमर्धज्याकारं परमफल- ज्यानुरुद्धं कोटिफलम् । एते तत्र कक्षास्थभुजज्याको- टिज्यावद्भुजकोटिसृपे इति । कक्षास्थभगणाशप्रमाणेनैते भुजज्याकीटिज्यारूपे भुजकोटी तदा कक्षास्थभागप्रमा- णानुरद्धप्रागुक्तनीचोच्चपरिधिभागैः केइत्यनुपातेन फल- वृत्तस्थत्वाद्भुजफलकोटिफले” रङ्गनाथः
📄 मूल मुद्रित पृष्ठ (2264-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।