कोट्टवी, स्त्री, दुर्गा । इति त्रिकाण्डशेषः ॥ नग्ना [] स्त्री । इति शब्दरत्नावली ॥ नग्नमुक्तकेशी नारी । “या त्ववासा मुक्तकेशी कोट्टवी नग्निका च सा” ॥ इति जटाधरः ॥ (कोट्टं कुट्टनं छेदनं स्वपुत्त्रस्येति यावत् वाति हिनस्ति निवारयतीत्यर्थः । यद्वा, कोट्टे कुट्टने संग्रामे स्वसुतस्य रक्षार्थं वाति गच्छतीति । कोट्ट + वा गमनहिंसयोः + कः गौरादित्वात् ङीष् ॥) नग्ना स्त्रीरूपिणीदुर्गा । “तन्माता कोट्टवी नाम नग्ना मुक्तशिरोरुहा । पुरोऽवतस्थे कृष्णस्य पुत्त्रप्राणरिरक्षया” ॥ इति भागवते । १० । ६३ । २० ॥ (नहीयं स्वयमाद्याशक्तिरूपिणी दुर्गा किन्त्वस्याः लम्बाख्योऽष्टमो भागः । यथा, हरिवंशे वाण- कृष्णयुद्धे १८२ अध्याये २२-२३ । “व्याविध्यभाने चक्रे तु कृष्णेनाप्रतिभौजसा । कुमाररक्षणार्थाय बिभ्रती सुतनुं तदा ॥ दिग्वासा देववचनात् प्रातिष्ठत्तत्र कोट्टवी ॥ लम्बा नाम महाभागा भागो देव्यास्तथाष्टमः । चित्राकनकशक्तिस्तु सा च नग्ना स्थितान्तरे” ॥)
📄 मूल मुद्रित पृष्ठ (2-202-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।