कोशातकी, स्त्री, (कोशं अततीति । अत + क्वुन् । ततः कोशातक + गौरादित्वात् ङोष् ।) पटोली । घोषकः । इति मेदिनी ॥ फलशाकविंशेषः । झिङ्गा इति भाषा । तत्पर्य्यायः । कृतच्छिद्रा २ जालिनी ३ कृतवेधना ४ क्ष्वेडा ५ सुतिक्ता ६ घण्टाली ७ मृदङ्गफलिनी ८ कर्कशच्छदा ९ । अस्या गुणाः । शिशिरत्वम् । कटुत्वम् ॥ कषा- यत्वम् । पित्तवातकफनाशित्वम् । मलाध्मानविशो- धनत्वञ्च । इति राजनिर्घण्टः ॥ मूर्द्धन्यमध्योऽप्य- [] यम् । महाकोशातकी । राजकोशातकी । यथा । अथ नेनुआ । “महाकोशातकी प्रोक्ता हस्तिघोषा महाफला । धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः ॥ महाकोशातकी स्निग्धा सरा पित्तानिलापहा” ॥ अथ तोरै । “धामार्गवो पीतपुष्पो जालिनी कृतवोधना । राजकोशातकी चेति तथोक्ता राजिमत्फला ॥ राजकोशातकी शीता मधुरा कफवातला । पित्तघ्नी दीपनी श्वासज्वरकासकृमिप्रणुत्” ॥ इति भावप्रकाशः ॥ (अस्या गुणा यथा, -- “कोशातकी फलं स्वादु मधुरं वातपित्तनुत् । विपाके च कफं हन्ति ज्वरे शस्तं प्रदिश्यते” ॥ इति हारीते प्रथमस्थाने १० अध्याये ॥)
कोशातकी, [न्] पुं, (कोशातकोऽस्यास्तीति । इनिः ।) वाणिज्यम् । वणिक् । वाडवाग्निः । इति विश्वः ॥
📄 मूल मुद्रित पृष्ठ (2-205-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।