कोषपानं, क्ली, (परीक्षाविशेषार्थं कोषजलस्य प्रसृ- तित्रयजलस्य पानम् ।) तत्तदितिकर्त्तव्यताकप्रसृ तित्रयजलपानरूपपरीक्षाविशेषः । यथा, -- अथ कोषविधिः । नारदः । “पब्बाह्ण सोपवासस्य स्नातस्यार्द्रपटस्य च । [] संसूचकाव्यसनिनोः कोषपानं विधीयत ॥ इच्छतः श्रद्दधानस्य देवब्राह्मणसन्निधौ । मद्यपस्त्रीव्यसनिनां किरातानान्तथैव च ॥ कोषः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः । महापराधे निर्द्धर्म्मे कृतघ्ने क्लीवकुत्सिते ॥ नास्तिकव्रात्यदासेषु कोषपानं विवर्ज्जयेत् । तमाहूयाभिशस्तन्तु मण्डलाभ्यन्तरे स्थितम् ॥ आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयम् । ऊर्द्ध्वं यस्य हि सप्ताहाद्वैकृतन्तु भहद्भवेत् ॥ नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात्” ॥ संसूचक आस्तिक इति मिताक्षरा ॥ महाप- राधी महापातकी । निर्द्धर्म्मो वर्णाश्रमरहितः । कुत्सितः प्रतिलोमजः । दासः कैवर्त्तः । मण्डला- भ्यन्तरे गोमयकृतमण्डलाम्यन्तरे । वैकृतं रोगादि । महन्नाल्पम् । तस्य देहिनामपरिहार्य्यत्वात् । तदाह कात्यायनः । “अथ दैवविसम्बादे द्विसप्ताहन्तु दापयेत् । अभियुक्तं प्रयत्नेन तदर्थं दण्डमेव च ॥ तस्यैकस्य न सर्व्वस्य जनस्य यदि तद्भवेत् । रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमश्च सः ॥ ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् । नेत्ररुक् गलरोगश्च तथोन्मादः प्रजायते ॥ शिरोरुग्भजभङ्गश्च दैविका व्याधयो नृणाम्” ॥ गलरोग इत्यत्र शूलरोग इति क्वचित् पाठः । द्विसप्ताहन्तु महाभियोगभवविषयम् । महाभि- योगेष्वेतानीति प्रस्तुत्य चतुर्द्दशकादह्न इति याज्ञ- वल्क्याभिधानात् । मिताक्षराप्येवम् । यत्तु “त्रिरात्रात्सप्तरात्राद्वा द्वादशाहात् द्विसप्तकात् । वैकृतं यस्य दृश्येत पापकृत् स उदाहृतः” ॥ इति पितामहोक्तं तन्महाभियोगात् कृत्स्नद्र- व्यादर्व्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्रादि पक्षत्रयव्यवस्थापनीयमिति मिताक्षरा ॥ तथा । “भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् । समभावे तु देवानामादित्यस्य तु पाययेत् ॥ दुर्गायाः पाययेच्चौरान् ये च शस्त्रोपजीविनः । भास्करस्य तु यत्तोयं ब्राह्मणं तन्न पाययेत् ॥ दुर्गायाः स्नापयेच्छूलमादित्यस्य च मण्डलम् । अन्येषामपि देवानां स्नापयेदायुधानि च ॥ अत्र, स्वल्पापराधे देवानां स्नापयित्वायुधोदकम् । पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा” ॥ इति कात्यायनोक्तविशेषान्महापराधे देवस्नानो- दकमिति विषयभेदः । रत्नाकरोऽप्येवम् । मण्डलं व्योमेति व्यवहारदीपिका ॥ तस्यां विष्णुः । उग्रान् देवान् समभ्यर्च्च्य तत्स्नानोदकप्रसृतित्रयं पिबेत् । इदं मया न कृतमिति व्याहरन्देवतामुख इति । एतदनुसारादेवान्यत्र प्रतिज्ञा प्रागुक्ता । तत्र क्रमः । प्राड्विवाको गोमयकृतमण्डलाभ्यन्तरे धर्म्मावाह- नादिसर्व्वदेवतापूजां हवनान्तां निर्व्वर्त्य दक्षिणां दत्वा समन्त्रकं प्रतिज्ञापत्रं शोध्य शिरसि नि- धाय यथाविहितं देवं संपूज्य तत्स्नानोदकमानीय । ओँताय त्वंप्राणिनां प्राणः सृष्टेराद्यन्तु निर्म्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनान्तथा । [] अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे” ॥ इत्याभ्यामभिमन्त्र्य गोमयकृतमण्डलाभ्यन्तरे स्थितं सोपवासं स्नातार्द्रवाससमादित्याभिमुखं ओँ सत्येन मामभिरक्षस्व वरुणेत्यनेन शोध्य पठिते- नाभिमन्त्रितं प्रसृतित्रयं जलं पाययेत् । ततो यदि अदधिकालाभ्यन्तरे रोगपीडा न भवति तदा शुद्ध इति । ततो दक्षिणा देया । इति दिव्यतत्त्वम् ॥
📄 मूल मुद्रित पृष्ठ (2-206-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।