क्रमिः, पुं, (क्रम् + इन् ।) कृमिः । इति भरतो द्विरूपकोषश्च ॥ रोगविशेषः । तच्चिकित्सा यथा, “विडङ्गव्योषसंयुक्तमन्नमण्डं पिबेन्नरः । दीपनं क्रिमिनाशाय जठराग्निविवृद्धये ॥ प्रत्यहं कदुकं तिक्तं भोजनं कफनाशनम् । क्रिमीणां नाशनं रुच्यमग्निसन्दीपनं परम् ॥ विडङ्गशृतपानीयं विडङ्गेनावधूलितम् । पीतं क्रिमिहरं दृष्टं क्रिमिजांश्च गदान् जयेत् ॥ लिह्याद्विडङ्गचूर्णं वा मधुना क्रिमिनाशनम् । पलाशवीजस्य रसं पिबेन्माक्षिकसंयुतम् ॥ पिबेत्तद्वीजकल्कं वा तक्रेण क्रिमिनाशनम् । काम्पिल्यचूर्णकर्षार्द्धं गुडेन सह भक्षितम् ॥ पातयेत क्रिमीन् सर्व्वानुदरस्थान्न संशयः । विडङ्गं कौटजं वीजं तथा वीजं पलाशजम् ॥ संचूर्ण्य खादेत् खण्डेन क्रिमीन्नाशयितुं नरः । निम्बपत्रसमुद्भूतं रसं क्षौद्रयुतं पिबेत् ॥ धूस्तूरपत्रजं वापि क्रिमिनाशमनुत्तमम् । रसेन्द्रेण समायुक्तो रसो धुस्तूरपत्रजः ॥ ताम्बूलपत्रजो वापि लेपाद्यूकाविनाशनः । धत्तूरपत्रकल्केन तद्रसेनैव पाचितम् ॥ तैलमभ्यङ्गमात्रेण यूकान्नाशयति क्षणात् । क्रिमीणां विट्कफोत्थानामेतदुक्तं चिकित्सितम् ॥ रक्तजानान्तु संहारं कुर्य्यात् कुष्ठचिकित्सया ॥ क्षीराणि मांसानि घृतानि वापि दधीनि शाकानि च पर्णवन्ति । अम्लञ्च मिष्टञ्च रसं विशेषात् क्रिमीन् जिघांसुः परिवर्ज्जयेद्धि” ॥ इति क्रिम्यधिकारः । इति भावप्रकाशः ॥
📄 मूल मुद्रित पृष्ठ (2-214-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।