🕉️ 22 November 2026, Sunday · 08:13:30 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

क्रयनियम
krayaniyama
🟢 वाचस्पत्यम्
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्रयनियम पु० क्रवे नियमः । क्रेष्टविक्रेत्रोर्नियमभेदे । स च नियमः “भूयसा वस्नमचरत् कनीयोऽविक्रीतो अकानिषं पुनर्यन् । स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि दुहन्ति प्रबाणम्” ऋ० ४, २४, ९, भाष्ये दर्शितो यथा- “अत्र ऋग्द्वेये संप्रदायविद्भिः पूर्वाचार्यैः केचित् श्लोकाः पठ्यन्ते तएव लिख्यन्ते । “अल्पं यः पतिगृह्णाति मूल्यं पण्येन भूयसा । स क्रेतारं पुनर्गच्छन्नविक्रीतस्त्वयं मया । इति ब्रुवन् कामयते पुनर्मूल्यस्य पूरणम् । स वि- क्रेता पुनर्मूल्यं भूयसा न प्रपूरयेत् । हीनं न लभते वस्नंयदा विक्रीतवान् पुरा । यथासमयमेव स्यात्तयोर्न पुनरन्यथा । अयं विक्रय एवेति समयश्चेत् कृतोभवेत् । अथ मूल्यार्थमेतत् स्याद्विचार्यैव तु निर्णयः । इत्येवं समयो ऽकारि तदा मूल्यं प्रपूर्यते । तत्मादादौ मया कार्य्यः । स- भयोऽत्रेति चिन्तयत् । वामदेवो वशीकृथ शक्रं स्तोत्रेण भूयसा । विक्रीणन् समयं चक्रैन्द्रं क इममित्यृव्वा । अतश्च द्व्यृच एकार्थो भूयसा वस्नमित्ययमिति । अय- मर्थः प्रतिपाद्यते कश्चित् भूयसा भूम्ना पण्येन द्रव्येण कनोयोऽल्पतरं वस्नं पसु मूल्पं धनमचरत प्राप्नोति पु- [] नर्यन् क्रेतारं पुनर्गच्छन् स विक्रेतायमर्थो मयान विक्रीत इति ब्रुवन् न कानिषं मूल्यपूर्त्तिं कामयते व्यत्ययेनोत्तम पुरुषः । स विक्रेता भूयसा धनेन कनीयोऽल्पतरं मूल्यं नारिरेचीत् क्रेतुः सकाशान्न रिक्तीकरोति न लभत इत्यर्थः । दीना असमर्था दक्षाः समर्थाश्च वाणं वचनं विप्रदुहन्ति यथोक्तं क्रयकाले तथैव लभन्ते” “कैमं दशभिर्मभेन्द्रं क्रीणाति घेनुभिः यदा वृत्त्राणि जंघनदथैनं मे पुनर्ददत्” ऋ० ४, २४, १०, “मम मदीयमिदं स्वभूतमिन्द्रं धेनुभिः प्रीणयित्रीभिर्दश- भिर्दशसंख्याकाभिः स्तुतिभिः कः क्रीणति क्रयं करोति हे तदानींक्रेतारोयुष्माकं मध्य एवमपि समयः क्रियते यदा- ऽयमिन्द्रो वृत्त्राणि त्वदीयान् शत्रून् जंघनत् हन्यात् अथा- नन्तरमेवैनमिन्द्रं मे मह्यं पुनर्ददत् पुनर्दद्यात्” भा० । “निश्चित्य वस्त तन्मूल्यमुभयोः सम्मतौ शिवे! । पर- स्पराज्ञाकरणं क्रयसिद्धिस्ततो भवेदिति” । “क्रयसिद्धिर- दुष्टानां गुणश्रवणतो भवेत् । विपर्यये तद्गुणानानन्थथा भवति क्रयः” महा० नि० त०
📄 मूल मुद्रित पृष्ठ (2308-b)
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬