क्रव्यात्, [द्] पुं, (क्रव्यं मांसं अत्तीति । “क्रव्ये च विट्” । २ । २ । ६९ । इति ।) राक्षसः । इत्यमरः ॥ मांसा- शिनि त्रि । इति मेदिनी । (गृध्रादिमांसभुक् पक्षिविशेषश्चापि । यथा, रघौ । १५ । १६ । “धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ॥ क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः” ॥ “कृशानुपक्षे क्रव्यादो गृध्रादयः” । इति मल्लि- नाथः । व्याघ्रादिहिंस्रपशुभेदः । यथा, मनुः ५ । १३१ । “श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् । क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः” ॥ “क्रव्याद्भिः व्याघ्रश्येनादिभिश्चेति” । कुल्लूकभट्टः ॥ [] ग्राम्यक्रव्यादो मार्ज्जारादयः । यथा, मनौ । ११ । १९९ । “श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च” । “ग्राम्यैः क्रव्याद्भिराममांसादैर्मार्ज्जादिभिः” । इति कुल्लूकभट्टः ॥ गुरुपत्नीगामिनां नरकभोगा- वसाने क्रव्यादां आममांसाशिनां योनिप्राप्तिर्भवति । यथा, तत्रैव । १२ । ५८ । “तृणगुल्मलतानाञ्च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्म्मकृताञ्चैव शतशो गुरुतल्पगः” ॥ शवदाहकाग्निभेदः । यथा, शतपथब्राह्मणे । १ । २ । १ । ४ । “अपाग्ने ! अग्निमामादं जहि निष्क्रव्यादं सेध इत्ययं वा आमाद् येनेदं मनुष्याः पक्त्वाऽश्नन्ति अथ येन पुरुषं दहन्ति स क्रव्याद् एतावेवैत- दुभावतोऽपहन्ति” । “हे अग्ने ! गार्हपत्य ! आ- मादमग्निमपजहि परित्यज तथा, -- “क्रव्यादमग्निं निःसेधनिःशेषं दूरे गमय” । इति भाष्यम् ॥ ऋग्वेदे च । १० । १६ । १० । “योऽग्निं क्रव्यात् प्रविवेश यो गृहम्” ॥)
📄 मूल मुद्रित पृष्ठ (2-215-b) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।