🕉️ 24 November 2026, Tuesday · 01:44:59 AM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

क्लिष्टा
kliṣṭā
🟠 शब्दसागर🟢 वाचस्पत्यम्
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
क्लिष्टा संज्ञा स्त्री॰ [सं॰] पंतजलि के अनुसार वे चित्तवृत्तिया—जिनसे आत्मा को कष्ट पहुँचता हो ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
क्लिष्टा स्त्री क्लिष्टं क्लेशः अस्त्यस्याम् अच् । पातञ्जलोक्ते चित्तवृत्तिभेदे यथा “वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः” सू० “क्लेशहेतुकाः कर्म्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः । ख्याति- विषया गुणाधिकारविरोधिन्योऽक्लिष्टाः क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः । क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति । अक्लिष्ट- च्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्काराः वृत्ति- भिरेव क्लिश्यन्ते संस्कारैश्च वृत्तय इति एव वृत्तिसस्कार चक्रमनिशमावर्त्तते तदेवम्भूतं चित्तमवसिताधिकारमात्म कल्पेनावतिष्ठते प्रलयं वा गच्छतीति । ताः क्लिष्टाश्च पञ्चधा वृत्तयः” भा० “स्यादेतत् पुरुषो हि शक्ये, उपदिश्यते । न च वृत्तिनि- रोधो वृत्तीरविज्ञाय शक्यो, न च सहस्रेणापि पुरुषा- युषैरलमिमाः कैश्चित् परिगणयिंतुमसख्याताश्च कथ निरोधव्या इत्याशङ्क्य तासामियत्तास्वरूपप्रतिपादनपर सूत्रमवतारयति ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य व्र्त्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः । वृत्तिरूपोऽ- वयव्येकः । तस्य प्रमाणादयोऽवयवाः पञ्च ततस्तदवयवाः पञ्चतय्यः पञ्चावयवा वृत्तिर्भवति ताश्च वृत्तयश्चैत्रमैत्रादि चित्त--भेदात् बह्व्य इति बहुवचनमुपपन्नम् एतदुक्तं भवति चैत्रो वा मैत्रो व काश्चित्सर्व्वेषामेव तेषां वृत्तयः पञ्चतय्यः एव नाधिकैति! चित्तस्येति चैकवचनं जात्यभिप्रायं चि- त्तानामिति तु द्रष्टव्यम् । तासामवान्तरविशेषमनुष्ठानोप- योगिनं दर्शयति । क्लिष्टाऽक्लिष्टा इति । अक्लिष्टा उपा- देयाः क्लिष्टा निरोद्धव्यास्ता अपि परेण वैराग्येणेति । अस्य व्याख्यानम् । क्लेशहेतुका इति । क्लेशाः अस्मितादयो हेतवः प्रवृत्तिकारणं यासां वृत्तीनान्तास्तथोक्ताः । यद्वा पुरुषार्थं प्रधानस्य रजस्तमोमयीनां हि वृत्तीनां क्लेशका- रित्वेन क्लेश्यैव प्रवृत्तिः क्लेशः क्लिष्टम् तदासामस्तीति [] क्लिष्टा इति । यत एव क्लेशोपार्जनार्थममूषां प्रवृत्तिरत- एव कर्म्माशयप्रचयक्षेत्रीभूताः प्रमाणादिकाः । खल्वयं प्र- तिपत्त्यर्थमवसाय तत्र सक्तोद्विष्टो वा कर्म्माशयमाचिनो- तीति भवन्ति धर्म्माधर्म्मप्रचयप्रसवभूमयो वृत्तयः क्लिष्टा इति अक्लिष्टा व्याचष्टे ख्यातिविषया इति । विधूतरजस्तमसो बुद्धिसत्वस्य प्रशान्तवाहिनः प्रज्ञाप्रसादः ख्यातिस्तया विषयिण्या तद्विषयं सत्वपुरुषविवेकमुपलक्षयति तेन सत्वपुरुषविवेकविषया यतः अतएव गुणाविकार विरोधिन्यः कार्य्यकरणं हि गुणानामधिकारो विवेकख्या- तिपर्य्यवसानञ्च त दति चरिताधिकाराणां तु गुणानाम- धिकारं विरुन्धति इति अतस्ता अक्लिष्टाः प्रमाणप्रभृतयो वृत्तयः । स्यादेतत् वीतरागजन्मादर्शनात् क्लिष्टवृत्तय एव सर्व्वप्राणभृतां न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्य- क्लिष्टवृत्तयः । नचामूषां भावेऽपि कार्य्यकारिता विरोधि- मध्यपातित्वात् । तस्मात् क्लिष्टानामक्लिष्टाभिर्निरेध- स्तासां च वैराग्येण परेणेति मनोरथमात्रमित्यत आह । क्लिष्टप्रवाहेति । आगमानुमानाचार्य्योपदेशप- रिशीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रान्तरे तत्र पतिताः स्वयमक्लिष्टाएव यद्यपि क्लिष्टप्रवाहपतिताः । न स्वलु विशालग्रामे किरातशतसङ्कीर्णे प्रतिवसन्नपि व्राह्म- णः किरातो भवति । अक्लिष्टच्छिद्रेष्विति निर्दशनम् । क्लिष्टान्तर्वर्त्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः स्व संस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्या ह तथाजातीयका इति । अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाः संस्कारा इत्यर्थः । तदिदं वृत्तिसंस्कार, अक्रमनिश मावर्त्तते आनिरोधसमाधेः तदेवंभूतञ्चित्तं निरोधावस्थं संस्कारशेषं भूत
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬