क्षज, इ क तङ्के । इति कविकल्पद्रुमः ॥ (चुरां-परं- अकं-सेट् ।) तङ्को दुःखेन जीवनम् । इ क, क्षञ्जयति दीनः । इति दुर्गादासः ॥
क्षज, इ ष म ङ दागत्योः । इति कविकल्पद्रुमः ॥ भ्वां-आत्मं-सकं-सेट् ।) इ, क्षञ्ज्यते । ष, क्षञ्जा । सेमक्तात् सरोरित्यने- नैवेष्टसिद्धौ अस्य षानुबन्धस्त्वरपर्य्यन्तघटादिभ्यो ङ इति प्राचीनमतानुरोधात् । म, अक्षञ्जि अक्षाञ्जि क्षञ्जं क्षञ्जं क्षाञ्जं क्षाञ्जम् । मानुबन्ध- बलात् अनुपधाया अपि दीर्घः । स्रमते तु अत्र दीर्घविधिरुपधां नापेक्षते । ङ, क्षञ्जते । ष, क्षजा । म, क्षजयति । ङ, क्षजयते । दा दानम् । इति दुर्गादासः ॥
क्षज, ष म ङ दागत्योः । इति कविकल्पद्रुमः ॥ भ्वां-आत्मं-सकं-सेट् ।) इ, क्षञ्ज्यते । ष, क्षञ्जा । सेमक्तात् सरोरित्यने- नैवेष्टसिद्धौ अस्य षानुबन्धस्त्वरपर्य्यन्तघटादिभ्यो ङ इति प्राचीनमतानुरोधात् । म, अक्षञ्जि अक्षाञ्जि क्षञ्जं क्षञ्जं क्षाञ्जं क्षाञ्जम् । मानुबन्ध- बलात् अनुपधाया अपि दीर्घः । स्वमते तु अत्र दीर्घविधिरुपधां नापेक्षते । ङ, क्षञ्जते । ष, क्षजा । म, क्षजयति । ङ, क्षजयते । दा दानम् । इति दुर्गादासः ॥
📄 मूल मुद्रित पृष्ठ (2-223-c) स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।