क्षतजव्रण पु० भावप्र० उक्ते व्रणभेदे “पृथक् समस्तदोषोत्या रक्तजागन्तुजौ तथा । व्रणशोथाः षडेते स्युःसंयुक्ताः शोथलक्षणैः । (शोथलक्षणैः पूर्वोक्तैः) विशिष्टं रूपमाह । “विषमं पच्यते वातात पित्तो- त्थश्चाचिरञ्चिरम् । कफजः पित्तवच्छ्वोथो रक्तागन्तु समुद्भवौ” । अत्र रक्तजेत्युक्तेः क्षतजव्रणैत्येव शब्दस्यौ- चित्यात् शब्दकल्पद्रुमे क्षतव्रणशब्दकलपनं प्रामादिकम् भावप्र० उक्ते ५ पिपासाभेदे स्त्री यथा “भयश्रमाभ्यां बलसंक्ष्याद्वा ऊर्द्ध्वं चित पित्तवि- वर्द्धनैश्च । पित्तं सवातं कुपितं नराणां तालु प्रपन्नं जनयेत् पिपासाम् । स्रोतःस्वपांवाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः । तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथान्याऽऽमसमुद्भवा च । भक्तोद्भवा सप्त- मिकेति तासां निबोध लिङ्गान्यनुपूर्व्वशस्तु” । नराणां चितं स्वस्थान एव सञ्चितं पित्तं सवातं पित्तविवर्द्धनैः कष्ट्वम्लोष्णादिभ्रिः कुपितं भयश्रमाभ्यां बलसंक्षयादुपवासा- देश्च वातः कुपितः । तद्द्वयस् ऊर्द्ध्वं प्रसरत् तालु प्रपन्नं सत् पिपासां जनयेत् । न केवलं तालुन्येव दूषिते तृष्णा भवति । किन्तु जलवाहिस्रोतःस्वपि अत आह स्रो- तःस्वित्यादि । नन्वत्र बहुवचनं न युक्तम् । यतो ज- लवहे द्वे स्रोतसी सुश्रुतेनोक्ते । उच्यते । तयोरेवा- जेकप्रतानयोगान्न दोषः । अपांवाहिषु स्रोतःस्विति जिह्वादेरप्युपलक्षणम् यत आह चरकः “रसवाहि [] नीश्च घमनीर्जिह्वा हृदयगलतालु क्लोम च । संशो- ष्य नृणां देहेषु कुरुतस्तृष्णामतिप्रबलौ पित्तानिला- विति । संख्यामाह तिस्र इत्यादि । तृष्णायाः सा- मान्यलक्षणमाह । “सततं यः पिबेत्तोयं न तृप्ति मविगच्छति । मुहुः काङ्क्षति तोयन्तु तं तृष्णर्ज्ञितना दिशेत्” । क्षतजामाह “क्षतस्य रुक्शोणितनिर्गमा- भ्यां तृष्णा चतुर्थी क्षतजा मता तु” । क्षतस्य शस्त्रा- दिक्षतयुक्तस्य रुक् पीडा” ।
📄 मूल मुद्रित पृष्ठ (2357-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।